SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९म अध्यायः सूत्रस्थानम्। ४३६ इति। आदौ सत् ततश्चित् ततः आनन्द इति स सच्चिदानन्दः। तचितोऽप्रसादो गुणांशः प्रधानं नाम ब्रह्मा बभूव । ___ य एप महाविष्णुः कालः स खलु चक्रवर्द्रमणस्वभावेन सर्वभावपरिणामकृतस्वभावः प्रधानं चिदगुणांशः स क्षेत्रने नाधिष्ठितमनप्रविश्य क्षेत्रज्ञ सञ्चाल्य तद्गुणं सङ्कोच्य विकाश्य च प्रसादमागेन सत्त्वं नाम गुणमप्रसादभागेन तमोगुणं मध्यमभागेन रजोगुणं पृथगरूपेणाभिव्यञ्जयामास । तदेव कालानुपविष्टं क्षेत्रज्ञाधिष्टितं समत्रिगुणमिति संहतरूपमव्यक्तं नामात्मा प्रकृतिबभूव । ततः कालेन तदव्यक्तं प्रधानं त्रिगुणाधिक्यरूपं वैषम्यमितं महान् बभूव। स द्वितीयो धातुः। स चाप्येकैकगुणाधिक्येन विषमस्त्रिविधोऽहकारो वभून। स तृतीयो धातुः। स चाहकारः पञ्च तन्मात्राणि विषम एव बभूव । तानि च मात्राणि शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रमिति पञ्च महाभूतानि । शब्दगुणमात्र मप्रतीघातलक्षणमाकाशम्। स्पर्शगुणमात्रश्चलस्वरूपो वायुः। रूपगुणमात्रमुष्णलक्षणं तेजः। रसगुणमात्रा द्रवरूपा आपः। गन्धमात्रगुणा खररूपा भूरिति । पञ्चेति। सप्त विकाररूपाः प्रकृतयो धातवस्तथा प्राणिनां बुद्धाहङ्कारौ पञ्च भूतानि चेति सप्त धातवस्तत्रोत्तरोत्तरं सप्त पूर्वपूर्वधातुवैषम्याविकारा उत्तरोत्तरापेक्षया साम्यात्मकाः पूर्वपूर्वसप्तधातवः प्रकृतयः । पश्चार्थानां दशेन्द्रियाणाञ्च मूक्ष्माणां प्रकृतिरहङ्कारः, तत् तदपेक्षया साम्यात्मकत्वात्। अहङ्कारवैषम्यात्मकखात् तु पश्चार्थी दशेन्द्रियाणि च विकाराः। इत्येवं महदादिकं सर्व प्रधानत्रिगुणवैषम्यलक्षणं विकार एवेति । यथा लोके ब्रह्मा तथा मनः। यथा चेन्द्रस्तथाहङ्कारः। यथा विराट् तथा महान । यथाकाशादीनि पञ्च भूतानि तथा चैतानि चतुविधानि शुक्रशोणितरसात्मसम्भवानि । तेषां विपरिणामेन विकाररूपाश्च धातवः । वातादयो रसादयः पुरीषादयश्च साम्यमिताः शरीरसहजाताः प्रकृतयः। यथा च लोके यथास्वलक्षणा वाय्वकेसोमा धातवो विधानधारणपोषणैस्तथा शरीरे स्वरूपेण यथास्वलक्षणो वायुस्तैजसं पित्तं सौम्यः श्लेष्मा चैते धातवः । एवं लोके भूमियथा तथा स्थूलशरीरं भौमम्। तत्र मृजलक्षादिवत् रसरक्तमांसास्थादयो यथास्खलक्षणा धातवः । एवं हिरण्यगर्भवन्मनसो धातवो यथास्खलक्षणाः सत्वादयो गुणा इति । प्रकृतिभूता विकारा वास्तवप्रकृतिब्रह्मापेक्षयैवात्मापेक्षया वैषम्यात्मकलास्वास्थ्यहेतोः स्वमानात् न्यूनत्वमधिकत्वौं वा । साम्यं धातुसाम्यं, प्रकृतिरारोग्यम् । “उच्यते" ग्रह For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy