SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः ३३ सूत्रस्थानम् । प्रशेन तत् प्रयुज्यत्वात् । तेन मृत्युना च तेषामायुष्मत्त्व लक्ष्यते। घटादिस्थावराणां कपालाद्यात्मकसमवायिसमूहसंयोगो नादृष्टप्रयुज्यः कम्जातगुणविशेषो ह्यात्मनोऽदृष्टमिति रक्षादीनां सजीवानामस्ति चादृष्टमस्ति चायुरिति बोध्यम् । यावत् समवायिसंयोगस्तु अजीवाचेतनानां घटादीनां सजीवाचेतनानां वृक्षादीनां चेतनानाश्चास्त्येव । वृक्षवनरखादिरूपेण यथास्वतत्त्वपरिणामे व व यावत् तत्त्वान्येव संमवायीनि कारणानि, अदृष्टमिह समवायिकारणं देहिसमवायित्वेन निमित्तं वा। यावत् समवायिसंयोगस्तु वृत्तिनियामकसम्बन्धो भूतादिद्रव्याणां तत्तदारम्भकाणां संयोगः द्रव्यगुणयोः समवाय इत्युभयरूपः । ताकिकास्तु अवयवावयविलक्षणो द्रवयाणामपि सम्बन्धः स चायुरेवेत्याहुः। इत्थं निरुक्तस्यायुषः साम्यं वृद्धिासश्च यौक्तिकाधिकन्यूनकालविशिष्टत्वेनानुमेया आयुवदिभिरुपदिश्यन्ते । तेन जीवितविशिष्ट कालाआयुरिति यदुच्यते तन्न । आयुर्हासद्धिकरणकम्प्रणा प्रसिद्वस्य कालस्य हासद्धग्रापत्तेः जीवितस्य भिन्नरूपतया वाच्यखापत्तश्च । कालजीवितयोवैशिष्ठ्यमायुरित्यपि चिन्त्यं, जीवितं यावत् समवायिसंयोगः स च समवायः समवायसंयोगोभयरुपो वा तस्य च कालवैशिष्ट्य समवेतसंयोगित्वमिति । अथ यदि येनामाणिप्राणि यावद्वस्तु नियतकिञ्चित्कालमवतिष्ठते स यावत् समवायिसंयोग आयुरिष्यत, तदा नरो नश्यति तरुनश्यतीतिवत् घटो नश्यतीत्यादि साधु, तावत् नरो म्रियते जीवति भवतीतिवत् घटो म्रियते जीवतीत्यादिप्रयोगस्य साधुता भवतु । न स्यात् नाशो हि यावत् समवायिसंयोगध्वंसो, मरणं त्वात्मशरीरसंयोगध्वंस इति तस्मान्नाशसामान्य प्रति नायुषः प्रतिबन्धकत्वं कल्प्यते। कल्प्यते च मरणं प्रत्यायुषः शरीरादिसंयोगस्येति, तेनेदं फलति यावत् समवायिसंयोगाभावे नाशः स्याच्छरीरेन्द्रियादिसंयोगरूपायुरवसाने मरणं स्यात् तच्च विनाशविशेषश्च भवतीत्यतो जीवनमरणे मिथः सविपर्यये नाशजन्मनी च। न तु नाशजीवने न वा जन्ममरणे घटो म्रियते जीवतीत्यप्रयोगात् । अप्राणिनामायुहिताहितमानान्यस्मिन् वेदै निरूपयितुमनावश्यकत्वात् प्राणिनामेवायुहिताहितमानानि नित्यगः, अनुवन्नात्यायुरपरापरशरीरादिसंयोगरूपतया इत्यनुबन्धः, पर्यायैररायुरुच्यत इति एकार्थाभिधायिभिः शब्दैरुच्यते। यद्यपि च नित्यगानुबन्धशब्दाभ्यां न क्वचिदप्यायुरभिधीयते तथापि नित्यगत्वानुबन्धत्वधर्मख्यापनाथमेवैतत् संज्ञाद्वयं बोद्धव्यम्, धारिसंज्ञा त्वर्थेदशमहामूलीये भविष्यति। ननु उत्तरत्र “चैतन्यानुवृत्तिरायुः' इत्यायुलक्षणं करिष्यति, इह तु शरीरेन्द्रिय For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy