________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
सूत्रस्थानम् ।
४१५ अग्निमनुचरेत्। ओषधीः प्रशस्ता धारयेत्। द्वौ कालावुपस्पृशेत्। मलायनेष्वभीषणं पादयोश्च वैमल्यमादध्यात् । त्रिः पक्षस्य केशश्मश्रु लोमनखान् संहारयेत् । नित्यमनुपहतवासाः सुमनःसुगन्धिः स्यात्। साधुवेशः, प्रसाधितकेशो, मूर्द्धस्रोतोऽभ्यङ्ग-* __ अग्निमनुचरेदिति-अग्नि सायं प्रातरग्निहोत्रमनुप्रातरनसायं सायमनु पुनः पातश्च तदाचरेदित्यर्थः। ओषधीरिति-वनजाः प्रशस्ताः। यस्मिन् यस्मिन् विगुणग्रहादौ याः शास्त्रान्तरे चायुर्वेद चोक्तास्ता इत्यर्थः। एतच्चापि युगपदुभयार्थसम्पादकं प्रभावात्। द्वौ कालाविति—सायं प्रातरुपस्पृशेन स्नायात्। सन्ध्यां वोपासीत । मध्याह्नसन्ध्योपासनायां तथा कालनियमाभावात्, कालात्यये प्रायश्चित्ताभावाच। मलायनेष्वित्यादि-"मेध्यं पवित्रम्” इत्यादिना मात्राशितीये स्वयमुक्तम् । तथागुणखादत्र विधीयते सद वृत्तवेन। त्रिः पक्षस्येति–मासि पञ्च दिनानि तु पट् षड् दिनानि मध्ये विहायाष्टमे दिने ३मश्वादिसंहारे भवन्तीति व्यवस्थायाः पक्षस्य त्रिः संहारयेदित्युपदिष्टम् । द्वितीयपक्षे तु प्रथमदिनसहितमेव गणनीयम्, चातुर्थकादिज्वरदिनवत्। एतच्च मात्राशितीये “पौष्टिकं वृष्यम्” इत्यादिगुणवेनोक्तखादत्र विधीयते सद वृत्तलेन गुणद्वयसम्पादनख्यापनार्थम् । नित्यमनुपहतवासाः मलवच च्छिन्नं वासो न पिदध्यात् । “काम्यं यशस्यम्” इत्यादिगुणखान्निम्मलाक्षण्णवासो विभृयात् । नित्यञ्च सुमनःसुगन्धिः स्यात् । मात्राशितीयोक्त-“वृष्यं सौगन्ध्यम्”-इत्यादिगुणवात्। अत्र सुमनसा सुगन्धिपुष्पेण माल्यरूपेण, सुष्टु गन्धो यस्य स तथा स्यादिति विधीयते । साधुवेशः मात्राशितीयीक्त-“दोगेन्थ्यं गौरवम्”-इत्यादिगुणखात् शरीरपरिमाज्जनवान् स्यादित्यत्र विधीयते। प्रसाधितकेशः मात्राशितीयोक्त“पौष्टिकम्”-इत्यादिगुणखात् केशश्मश्रुप्रसाधनवान् स्यादित्यत्र विधीयते । का स्न्येन, द्वौ कालौ सायं प्रातः, उपस्पृशेत् स्नायात्. यदि वा उपस्पृशेत् सन्ध्यामुपासीत ; त्रिः पक्ष्यस्येति पञ्चभिः पञ्चभिर्दिनः, यदि वा क्षारपाणेर्वचनप्रामाण्यात् पक्षशब्दोऽयं मासे वर्त्तते, "पतति पञ्चदशाभ्यां मासः' इति, पञ्चदशाहः पक्षोऽभिधीयते ; एवं “पतति ऋतुर्मासाभ्यां पक्षरूपाभ्याम्' इति मासोऽपि पक्षाभिधेयः ; उक्तञ्च क्षारपाणौ "त्रिर्मासस्य रोमनखान् संहारयेत्” इति । अनुपहतवासा अम्लानवासाः, प्रसिद्ध केशः प्रसाधितकेशः, इह केशप्रसाधनाभिधानात् पूर्व
* मूर्द्धश्रोत्रघ्राण इति चक्रपाणिः ।
For Private and Personal Use Only