SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०८ चरक-संहिता। [इद्रियोपक्रमणीयः तिमिराबभिभूतखे तु सूर्यादिप्रकाशसहकारेणापि प्रत्यक्षजननं न स्यात् । अभिभूतस्य स्वकर्मा प्यशक्तवादिति सर्वदाभिभावकद्रव्यान्तरकल्पनया रात्रिचराणां विड़ालादीनां चक्षुपि रश्मिदर्शनेनान्येपामपि पुरुषाणां दिवातेजसा अभिभूतरश्मौ चक्षुषि रश्म्यनमानं भवतीति। तथा सति काचावन्तरितप्रदीपेनेव रश्मिसत्त्वाञ्चक्षुरादिनाऽर्थः प्रकाश्यते । तेनेन्द्रियाणां भौतिकवे सिद्ध कुड्यान्तरितार्थानां पुनरनुपलब्धिर्न व्याहन्यते। इन्द्रियेन्द्रियार्थसन्निकर्षस्याप्रतिघातेनोत्पत्तेः। अप्रतिघातकले हेतुः वैशय भावानां यथादित्यरश्मिना स्फटिकान्तरितेऽपि दाह्य दाहः स्यादप्रतिघातखात् । ननु काचादिकमपि कुड्यादिवत् सन्निकोत्पत्तो प्रतिबन्धकं परस्परं प्रतिघातकखधर्मादिति चेत् ? न। आदशोदकयोः प्रसादस्वाभाव्यात् प्रतिविम्वरूपोपलब्धिवद्धि चक्षुरादीनामर्थे सन्निकपोत्पत्तौ काचस्याप्रतिघातकखं कुड्यादेः प्रतिघातकखमिति। अत्र तु प्रमाणं "दृष्टान मितानां हि नियोगप्रतिषधौ नोपपदेयते” इत्यक्षपादगौतमवचनमपि तुल्यम् । सुश्रुतेऽपि---"इन्द्रियेणेन्द्रियार्थन्तु स्वं स्वं गृह्णाति मानवः । नियमात तुल्ययोनिसान्नान्येनान्यमिति स्थितिः” इति वचनेन श्रोत्रादीनां शब्दादिग्रहणनियम एकैकाधिकपाश्चभौतिकखेन तुल्ययोनिखाच्छब्दादीनामितरार्थग्रहणप्रसङ्गस्तु सात्त्विकाहङ्कारिकखमात्रे भवतीति । चरकाचार्योऽपि तज्ज्ञापयितुमाह-तत्र यद्यदात्मकमिन्द्रियमित्यादि। तत्र तेषु पञ्चमु इन्द्रियेषु मध्ये यदिन्द्रियं तेषु पञ्चसु महाभूतेषु मध्ये यदात्मकं यद्भतप्रधान आत्मा स्वरूपं यस्य तत् यदात्मकं, तत्तदात्मकं तद्भूतप्रधानमेव तदिद्रियं तदात्मकं तद्भतगुणमथ तदकैकभूताधिकलेन विशेषात् प्रायेणान लक्ष्यीकृत्य धावति ग्रहीतुमिति शेषः। __नन तैजससहायसात्त्विकाहङ्कारिकवेऽप्येवमिन्द्रियाणि स्वार्थमनुधावितु नार्हन्तु कथं भौतिकत्वे एव चक्षुरिन्द्रियं रूपमिव रूपिणो मूर्तान् भावान् गृह्णाति नतराणीन्द्रियाणि शब्दाद्यर्थवतो गगनादीन् ग्रहीतुमहेन्तीति? अत आह-तत् स्वाभाव्यादित्यादि । तेषां वाह्यानां रूपादीनां यः स्वभावस्तैजसखादिः स एव खभावो यस्य तस्य भावः तस्मात् । तथा समानयोनिखे स्वभावविशेषादित्यर्थः । व्याख्यानमिदं तु समग्रवचनं, तेन तत्स्वभावादिति यद्यदात्मकमिन्द्रियं तस्य विशेषात् तदात्मकार्थग्रहणासिद्धावपि स्वभावादेव ; विशेषश्चायं चक्षुरिन्द्रिय तैजसमपि तेजसं रूपं विशेषादनुधावति । रूपवद्रव्यं तत्तदद्रव्यमयीमाकृतिञ्च कुत्सिताकुत्सितां पृथिव्याः कृष्णरूप For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy