SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०४ चरक-संहिता। [इन्द्रियोपक्रमणीयः तत्र यदयदात्मकमिन्द्रियं विशेषात् तत्तदात्मकमेवार्थमनुधावति ; तत्स्वभावाद्विभुत्वाञ्च ॥६॥ णीति यदुक्तं तत्र किमिन्द्रियं केनेन्द्रियेणान्येन वा गृह्यते ? तेषामिन्द्रियाणां द्रव्याणि पञ्चेति पञ्चेन्द्रियद्रव्याणीत्यनेनोक्तम् । तेषु कस्येन्द्रियस्य किं द्रव्यम् ? पञ्चेन्द्रियाधिष्ठानानीत्यनेन तेषामिन्द्रियाणां पञ्चाधिष्ठानान्यक्षिणी कर्णी नासिके जिह्वा लक् चेत्युक्तम् ; तेषु कस्येन्द्रियस्य किमधिष्ठानम् ? पञ्चेन्द्रियार्थाः शब्दस्पर्शरूपरसगन्धा इति च यदुक्तं तत्र कस्येन्द्रियस्य कोऽर्थः ? इति शिष्यप्रश्नमभिसन्धायाह- तत्रेत्यादि । तत्र तेष्वध्यात्मद्रव्यगुणेषु मध्ये इन्द्रियाणां पञ्चानामनुमानगम्यानां दर्शनादिकर्मणा लिङ्गेनानुमानबुद्धीव विषयतया ग्रहणयोग्यानां न तु प्रत्यक्षबुद्धग्रोपमानबुद्ध्या वा अणुखादावरणवादुपमानाभावाच्च । यतः पञ्चमहाभूतविकारसमुदायात्मकानां खादीनां पञ्चानां महाभूतानां विकाराः परिणामविशेषरूपाः, तेषां समुदायः तच्च मेलकसमवायेन मिलितो विशिष्टापूर्वः स्वरूप आत्मा येपां तेषां तथा। समुदाय. पदेन खादेजकैकभूतविकारात्मकखमिन्द्रियाणां निराकृतम् । तथाखे हि खादिभ्यो विशिष्टापूर्वमक्रियस्वरूपवं नोपपद्यते । न हेरकं कालपरिणतमपि भूतान्तरयोगं विना पूर्व विशिष्ट स्वरूपसमापद्यते, स्वरूपश्च न जहाति ; यथा ब्रह्म । तथा हि वीजधम्मिणि मूक्ष्मशरीरे यान्याहङ्कारिकाणि पञ्च बुद्धीन्द्रियाणि चक्षरादिसंशकानि निष्क्रियाणि नित्यानि सन्ति, तेषां चक्षुरादरकैकमिन्द्रियं स्थूलशरीरारम्भे तु शुक्रशोणिते गर्भाशयगते संयुक्त अव्यापन्ने परलोकादवक्रान्तसूक्ष्मशरीरिणा सूक्ष्मदेहस्थैः पञ्चभिर्महाभूतैर्विकार्यमाणैः सृष्टानां पञ्चाकाशादीनां महाभूतानामेकैकभूताधिकानि पञ्चैव भूतान्यनुप्रविश्य तत्तदेकैकाधिकपञ्चमहाभूतविकारसमुदायात्मकखेन जातानां सतां वस्तुरूपाणामिन्द्रियाणां चक्षुपि पाश्चभौतिके तेजोऽर्थादधिकं वत्तते, श्रोत्रे तथैव पाश्चभौतिके खमाकाशोचक्षुर्बुद्धवादय: करणकार्याः क्रियात्वात् छिदिक्रियावत् ; महाभूतानि खादीनि तेषां विकारः परिणामविशेषः, समुदायो मेलकः, स आत्मा समवायिकारणं येषां तानि। विशेषेणाधिकत्वेन । एतदुक्त भवति-पाञ्चभौतिकत्वेऽपि तेजोऽधिकत्वात् चक्षुस्तैजसं व्यपदिश्यते ; एवं घ्राणादिष्वपि पृथिव्याद्यधिकत्वेन पार्थिवत्वादिव्यपदेशः। अथ कथं चक्षुस्तेजोऽधिकं, घ्राणं पृथिव्यधिकमित्याद्यवधार्य्यत इत्याह,-तत्रेत्यादि । यदिन्द्रयं विशेषात् यदात्मक, तद्भतारब्ध तदिन्द्रियं तदात्मकमेव तदभूतात्मक For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy