SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०१ ८म अध्यायः सूत्रस्थानम् । न्द्रियार्थस्पर्शकृतेन भावविशेषेणार्थ इन्द्रियेण गृह्यते। ततस्तदर्थज्ञानमुत्पद्यते । इत्येवमिन्द्रियार्थसन्निकपोत्पन्नमुच्यते ज्ञानम् । ___ अथालौकिकः सन्निको नास्ति गौतमायनभिमतखात्। न हि सामान्य घटखादिकं निखिलघटादिप्रत्यक्षे सन्निकर्पः । परोक्षविनष्टघटादिकमजानतां परोक्षविनष्टघटादीनामपि प्रत्यक्षापत्तेः। तथा गाङ्गपुष्करादिजलावगाहनफलस्य कूपादिजलस्पर्शनेनापत्तेः, स्वदारोपगमने सर्वनाय्युपगमनापत्तेश्च । नापि विशेषणविशिष्टयोविशिष्टवैशिष्टयावगाहि ज्ञानं सम्बन्धविशेषेण प्रत्यक्षे सन्निकर्पः। यतः प्राग्दृष्टः खड्गधरो यस्त्यक्तखड्गस्य तस्य दर्शनेन तखड़गस्य स्मरणं न तु प्रत्यक्षम् । न वा तत्पुरुषात् त्यक्तखड्गात् पूर्वतद्भयादिफलमिति । न चापि योगजः सन्निकर्षः। सर्वभावाणां याथायन प्रत्यक्षे तपोवलजातयुक्तयुञानज्ञानं ह्याप्तानामुपदेशप्रामाण्ये हेतुः । तज्ज्ञानवत्वादाप्तानां प्रामाण्यात् तस्मादाप्तोपदेशस्य प्रामाण्यमिति--आप्तोपदेशग्रहणेनाप्तत्य संग्रहात् । न हि तेन सन्निकण चाक्षुपादिप्रत्यक्ष भवति किन्तु दृष्टवन्मानसज्ञानमेव ; अतो न तत् प्रमाणान्तरम् । तज्ज्ञानं योगिनां न तु सर्वेषां; सजनस्य तु मानसज्ञानविशेषाणामनुमानादिसंज्ञकानांप्रमाणान्तरलेनोक्तखात् । तदतिरिक्तमानसशानन्तु सुखदुःखादिविषयकखेऽसार्वत्रिकलेन व्यभिचारात् प्रमाणवेनास्वीकारात पञ्चेन्द्रियबुद्धेः प्रामाण्येन प्रत्यक्षवं स्वीकृतम्, मानसप्रत्यक्षस्य न प्रामाण्यं स्वीकृतम् ; किन्तु प्रत्यक्षखमस्तीति तत्त्वम् । अव्यभिचारिण्य एवोक्ता एताः पञ्चेन्द्रियबुद्धयः प्रमाणमिति बोध्यम् । वक्ष्यति च तिस्रषणीये“आत्मेन्द्रियमनोऽर्थानां सन्निकर्षात् प्रवर्तते। व्यक्ता तदावे या बुद्धिः प्रत्यक्षं सा निरुच्यते ॥” इति । अस्य तु लक्षणस्यानेन लक्षणेन तुल्यार्थी न वोध्यः। तल्लक्षणं परीक्षाख्यप्रत्यक्षस्य यञ्च प्रत्यक्ष प्रमाणमुच्यते। इद तु प्रमाणाप्रमाणभूतपञ्चेन्द्रियबुद्धिलक्षणमिति। तस्मिन् लक्षणे व्यक्ता इति पदेनाव्यभिचारिणी बुद्धिलेक्ष्यते। न तु भ्रमसंशयावप्रमाणखात् । अत्र तु इन्द्रियबुद्धिमात्रस्यैव लक्ष्यवेन व्यक्ता इति नोक्तम् । एवं तदाखे इति दानप्रत्यक्षज्ञानानन्तरोत्पन्नानुमानस्मरणानुव्यवसायानां निरासः। अत्र तु प्रत्यक्षानुव्यवसायस्य लक्ष्यते तदास इति नोक्तम्। अनुमानस्मरणतदनव्यवसायानां मानसशानानां निरासस्तु चक्षुर्बुद्धवादिका इति निर्देशो लक्षणातिव्याप्तिवारणाय कृत इति। अस्याः पञ्चविधबुद्धेः प्रामाण्याप्रामाण्य For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy