SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६८ चरक-संहिता। इन्द्रियोपक्रमणीयः अथैतव्यस्य मानसशानं प्रति संयोगस्य हेतुवेऽपि द्रव्यचाक्षुषादौ चक्षुःसयोगादेहेतुखं न स्यात । चक्षुरादिसंयुक्तसमवायादेव द्रव्यचाक्षुषाप्रपपत्तेरिति चेत् ? न । चक्षुःसंयुक्तसमवायो हि चक्षःसंयुक्तमहदुद्भूतरूपवद्र्व्यसम. वायः। इतरथा चक्षुःसंयुक्तपरमाणुसमवायन द्रव्यखादिग्रहापत्तेः। घटादौ महत्त्वसमानाधिकरणस्यापि तत्र सत्त्वात् । तेन च त्रसरेणुप्रत्यक्ष व्यभिचारात् । द्रव्येतरद्रव्यसमवेतचाक्षुषं प्रति चक्षुःसंयुक्तसमवायस्य हेतुखमिति । द्रव्य. चाक्षुषे चक्षुःसंयोगोऽवश्यं सन्निकर्षः । एतेन संयुक्तसमवायो न सन्निकर्णः । संयुक्तसमवेतसमवायादेव घटरूपादीनां ग्रहणसम्भवादिति च निरस्तं, चक्षुःसंयुक्तपरमाणुसमवेतसमवायेन परिमाणवादिप्रत्यक्षापत्न्या चक्षुःसंयुक्तमहदुद्भ तरूपवद द्रव्यसमवेतसमवायोऽपि सन्निको वाच्य इति स च न द्रव्यसमवेतचाक्षुषमात्रे हेतुः, त्रसरेणु-तद्रूपादिग्रहे व्यभिचारात् : किन्तु द्रव्येतरसमवेतचाक्षुष एवेति। अथान्धकारस्थघटादिकं कथं चक्षुषा नोपलभ्यते चक्षुःसंयोगरूपसन्निकर्पसत्त्वात् ? उच्यते। चक्षुषा द्रव्यग्रहे महदुद्भतरूपवदालोकसंयोगः सहकारी हेतुर्न च सोऽस्त्यन्धकारस्थघटे इति। महद्भ तरूपयोहेतुवन्तु परमाणुतेजसि चक्षुःसंयोगव्यवच्छेदार्थमवश्यं स्वीकर्तव्यमिति। ननु चक्षुषा तेजःप्रत्ययो न स्यात् तत्र तेजःसंयोगाभावात् , प्रदीपे हि तत्प्रभासंयोगोऽस्तीति चेत् ? न, मणिप्रभादौ तदभावात् । दृश्यते च महान्धकारे चन्द्रकान्तादिमणिविशेषप्रभा। अथालोकेतरद्रव्यचाक्षुषं प्रति आलोकः सहकारीति चेत् ? न। महान्धकारे सुवर्णरुप्यतेजःसाक्षात्कारापत्तेः। अत्रोच्यते-द्रव्यचाक्षुषमात्र आलोकसंयोगो हेतुः। न चालोकचाक्षुयं व्यभिचारः आलोकाकाशसंयोगस्यालोके सत्त्वात् तस्य तन्निष्ठखात्। न चैवमन्धकारे स्वर्णसाक्षात्कारापत्तिः, अनभिभूतरूपवदालोकसंयोगस्यैव हेतुलात्, सुवर्णरूपं ह्यभिभूतम् अन्यथा सौवर्णरूपस्यालोकसंयोगतो द्रव्यान्तरप्रत्यक्षापत्तेरिति । अथ यदि समवायाभावो न स्तस्तदा विशेषणता न सन्निकर्षः स्यात् । वस्तुतो हि वर्त्ततेऽभावोऽप्यतिरिक्तः सम वायश्च सर्वमतसिद्ध एवेति । पड़ेव लौकिकसन्निकर्षा भवन्ति । अलौकिकस्तु सन्निकर्ण स्त्रिविधः सामान्य लक्षण-ज्ञानलक्षण-योगजभेदात्। तत्र सामान्य यावद् घटादीनां सन्निकर्ष एकघटादिप्रत्यक्षेण निखिलघटादीनां प्रत्यक्षजनक हि तद्घटादिस्थघटखादिकमिति। ज्ञानं पूव्व यद्दण्डवतस्तस्यैव पुरुषस्य तहण्डरहितस्य प्रत्यक्षज्ञानं तद्दण्डज्ञानजनकमिति विशिष्टज्ञानं वैशिष्टयशाने For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy