SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६४ चरक-संहिता। इन्द्रियोपक्रमणायः व्याप्तवायुव्याप्ततेजोव्याप्तवादभ्यन्तरस्थितं रसतन्मात्रं महाभूतं तज्जयोतिष एकादशैकांशानुप्रविष्टं शब्दस्पर्शरूपैः सहितमेवाभवज्जलम्, ततो मिलितमधुरादिरसतया साधारणरसवेनाव्यक्त एव व्यक्तो रसः, न बन्योऽस्तीति । अत्र स्पर्शश्च शीतः रूपश्च शुक्रुमभिव्यज्यते द्रवत्वञ्च । एवं खव्याप्तवायुव्याप्ततेजोव्याप्तजलव्याप्तवेन तदन्तर्गतं गन्धतन्यानं महाभूतं तज्जलै कादशैकांशानुप्रविष्टं शब्दस्पर्शरूपरसः सहितमेवाभवत् पृथ्वी। तत्र साधारणो व्यक्त एवाव्यक्तो गन्ध इति। अत्र स्पर्शश्व खरः रूपं कृष्णः रसश्चापक्तः साधारणः दिगाकाशयोगात स्थूल शब्दगुणविशिष्टस्वरूपमाकाशमिदं स्थूलं शब्दगुणशीतस्पर्शगुणैवि शिष्टस्वरूपः पवनः। तथा शब्दोष्णस्पर्शरक्तरूपगुणैविशिष्टखरूपं तेजः । तथा शब्दशीतस्पर्शशुक्लरूपसाधारणरसगुण विशिष्ट स्वरूपा आपः । तथा शब्दखरस्पशेकृष्णरूपसाधारणरसगन्धगुणविशिष्टलक्षणा पृथिवी। इति यथा लोके तथा पुरुषेऽपि, तस्मादित्येषां शब्दादीनां तुल्ययोनिकानि श्रोत्रादीनीन्द्रियाणि ग्रहीतणि भवन्ति न शब्दमात्रादीनामिति । इत्येवं तत्त्वमविद्वांस एवानृपय इदं यद्वदन्ति तन्न। तद यथा-पञ्चानां महाभूतानां खादीनां द्विधा विभक्तीभूतानां प्रत्येकमद्धींशमेकं चतुश्चतुरंशीभूतं प्रत्येकमपराद्धांशे प्रवेशात : त्मिकखे खिदमाकाशमयं वायुरयं वह्निरिदं जलं यत् पीयते एपा च पृथ्वी स्थलरूपा बभूव । एतदर्थे श्लोकः कृतः-"द्विधा विधाय चैकैकं चतुद्धा विभजेत पुनः । स्वस्वेतरद्वितीयाद्धे योजना पञ्चपञ्चता॥" इति । अथ पृथिव्यादिवेषु पञ्चसु गुरुखादयो गुणा अव्यक्ता एव वर्तन्ते । ततो नाचाय्यरुपदिश्यन्ते। कार्ये खारभ्यमाणेऽन्योन्यानुप्रवेशादन्योन्यानुग्रहादावर्तमानेभ्य एव पृथिव्यादिभ्यस्त एव गुरुखादयोऽभिव्यक्ता भवन्तीति । सर्व विशिष्टं यद्यकिश्चिद् घटपटादिकं स्थावरं देवनरराक्षसादिकञ्च जगमं तेषु सर्वगुणा वर्तन्ते। पाश्चभौतिकानां शब्दादयः पञ्चपञ्चेन्द्रियार्था इव न गुरुखादयो घ्राणाद्यर्थाः। पृथिव्यादिष्वव्यक्तखेन वर्त्तनेऽपि तद्योनिकखाभावादभिव्यक्ती गन्धरसादीनां व्यक्तलेन गन्धतन्मात्रपृथिव्यादिषु सद्भावान्मधुरादिविशेषाभिव्यक्तौ खादियोगेऽपि चान्ययोनिकखाभावाद्सनादिग्राह्यवमिति । एतेन द्रव्यप्रत्यक्षे सन्निकर्षविशेष कल्पयतां वैशेषिकाणां वचनं विस्तरेण पञ्चेन्द्रियबुद्धिव्याख्याने दर्शयितव्यम् । इन्द्रियार्था इन्द्रियविषयाः। स्पर्शग्रहणेन स्पर्शस्य स्पर्शाश्रयस्य च दृव्यस्य स्पशैकार्थसमवेतस्य च परिमाणादेः स्पर्शग्राह्यस्य ग्रहणम् ; एवं रूपादिषु च वाच्यम् । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy