SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६० चरक-संहिता। निवेगान-धारणीयः शरोरचेष्टा या चेष्टा स्थैर्य्यार्था बलवर्द्धनी। देहव्यायामसंख्याता मात्रया तां समाचरेत् ॥ कम्णां विपापसात् पापजनकखाभावा सुखी सन् धर्मार्थकामान् भुङ्क्त उत्पन्नान् । अत्रात्मनेपदमपालने भोजनवदुपभोगार्थे बोध्यम् । चिनोति च लोकाविरोधेन फलोपयोगेन जायते च ; चकारात् कालान्तरेण प्रतिनियतकारणान्तरे सति मोक्षञ्च चिनोति इत्यर्थः ॥१८॥ ____गङ्गाधरः----अथ कायकम्म विशेषलेन व्यायामस्य स्वशरीरहिंसापोषणकरत्रमस्तीति तद्विधिमाह ---शरीरचेष्टेत्यादि। या च शरीरचेष्टा इष्टा मनोऽभीष्टा स्थैर्ध्यात्मा स्थिरताधर्मरूपा न तु नानातिरिक्तरूपा ततोऽनन्तरमेव बलवर्द्धनीत्युक्तं सा देहव्यायामसङ्ख्याता देहव्यायामसंज्ञा । देहपदेन मनोवाग्व्यवच्छेदः । मात्रया तां समाचरेत् । यया मात्रया लाघवादयः स्युनं च भ्रमादयः स्युस्तया मात्रयेत्यर्थः। ननु तर्हि कथं स्थैर्यात्मा बलवर्द्धनीत्युच्यते ? प्रतिदिनमनेकरूपेण परिमाणेनानपायेन बलवर्द्धनखाभावख्यापनार्थ तथा कृतम् । एकरूपयैव मात्रयाऽनपायया समाचरणे बलवद्धनी क्रमेण बलानुरूपेण बद्धते मात्रया या सा बलं वद्धयतीति वलवद्धनीति। “यत् तु चंक्रमणं नाति-देहपीड़ाकरं भवेत् । तदायुर्वेलमेधाग्नि-प्रदमिन्द्रियबोधनम् ॥” इति सुश्रुतेनाप्युक्तम् । मात्रा खल्वाद्धशक्तिकी तन्त्रान्तरेणोक्तात्र युक्त्या लभ्यमानानुसत्तव्या। “सबेष्टतुषु सहि मतारात्महिताथिभिः। शक्त्यद्धनैव कर्तव्यो व्यायामो हन्त्यतोऽन्यथा। कुलो ललाटे ग्रीवायां यदा घनः प्रजायते। शक्त्यद्धं तं विजानीयादायतोच्छ्रास एव पुण्यशब्दः, भुङ्क्त चिनोति चेति उत्पन्नानविरोधतः फलोपयोगेन भुक्त', चिनोति चोत्पादयति चापरानित्यर्थः ॥ १८ ॥ चक्रपाणि:--अविधार्यप्रवृत्तीन् मूत्रादीन् विधार्यप्रवृत्तीन् साहसादीन् दर्शयित्वा विधार्याविधार्यप्रवृत्ति व्यायाममाह-शरीरेत्यादि। देहस्य व्यायामो देहव्यायामः, देहग्रहणात् मनोव्यायामं चिन्तनादि निराकरोति, संख्याता संज्ञिता, या चेाऽभिप्रेतात्र, तेन, भारहरणाद्याऽनिष्टापि कार्यवशात् क्रियमाणा चेरा निरस्यते, चंक्रमणरूपा तु क्रिया प्राप्यते, स्थैर्य स्थिरता शरीरस्य तदर्था, मात्रयाऽनपायिपरिमाणेन ; एतावती चेयं शरीरचे सा मात्रावति, यावत्या लाघवादयो वक्ष्यमाणा भवन्ति ; चेष्टातियोगा वक्ष्यमाणाश्च श्रमभ्रमादयो न भवन्ति । सुश्रुतेऽप्युक्त-... "यत् तु चंक्रमणं नाति देहपीडाकरं भवेत्। तदायुर्बलमेधाग्नि-प्रद For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy