SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५८ चरक-संहिता। [न-वेगान-धारणीयः इमांस्तु धारयेद वेगान् हितैषी प्रत्य चेह च । साहसानामशस्तानां मनोवाकायकर्मणाम् ॥ लोभशोकभयक्रोध-द्वषमानजुगुप्सित-- नैर्लज्ज्येातिरागाणामभिध्यायाश्च बुद्धिमान् ॥ सप्तोद्गारादिजा इहोक्ताः किं नोदवर्ता भवन्तीति ? उच्यते-उद्गारादिसप्तजाचरकाचाव्येण नोदावत्तेवेनाभिप्रेताः। किन्तु घृतादिव्यापत्तिवद्वे गधारणव्यापद एवेति बोध्यम् । तथाऽपथ्यभोजनजस्त्वनुक्त एव दोपलिङ्गरुन्नेय इति परमतमप्रतिषिद्ध ह्यनुमतं भवति न हि सर्वः सर्व वक्तीति ॥ निगमनमाह इच्छनित्यादि ।। १६॥ गङ्गाधरः-ननु मूत्रादीनामिव साहसलोभादीनामप्यविधायखेनोक्तखेन संशयः किं धार्या न वा साहसलोभादिवेगाः ? इत्यत आह-इमांस्त्विादि । को धारयेत? हितेत्यादि। प्रत्य मृत्वा परलोके इह च जन्मनि हितैषी। कान वेगानित्यत आह--साहसानामिति । साहसानि कम्मयुत्साहाः । तानि सत्त्वसात्म्यशक्तिमविविच्य यानि क्रियन्ते तान्यशस्तानि तेषां वेगान् प्रत्त्युन्मुखभावान धारयेत् । सत्त्वसात्याशक्तिमालोच्य कर्मप्युत्साहं कुर्यादित्यर्थः । केषामित्यत आह-मनोवाकायकम्र्मणामिति । अशस्तानि मनसः कर्माणि दर्शयति -लोभेत्यादि। लोभोऽनुचितविषये मनःप्रवृत्ति, शोको धनबान्धवाद्यभावजन्यदुःखे मनःप्रवृत्तिः, भयमपकारकार्थानुसन्धाने मनःप्रवृत्तिः, क्रोधो येनात्मानं प्रदीप्तमिव मन्यते तत्, द्वषो वैरं परापकारे मनःप्रवृत्तिः मनःप्रत्यनुकूलभावप्रयुक्तमनोनिवृत्तिा, मानः सदसद्गुणाध्यारोपेणात्मन्युत्कर्षप्रत्ययः, जुगुप्सितं परनिन्दा, लज्जा मनःसङ्कोचस्तदभावो नैर्लज्ज्यम् । ईर्ष्या चक्रपाणिः-वेगानामविधार्यत्वेनोक्तत्वाल्लोभादीनामपि वेगा अविधार्याः स्युरित्याहइमास्त्वित्यादि। प्रत्य जन्मान्तरे, इहेतीह जन्मनि । सहसा आत्मशक्तिमनालोच्य क्रियत इति साहसं, तत् तु गजाभिमुखधावनादि । अशस्तानां निष्फलानामिति यावत्। मनोवाकायकम्मणामित्यत्र कर्मशब्दो व्यापारवचनः । अशस्तं मनसः कर्म दशयति-लोभेत्यादि। लोभो विषयेऽनुचितप्रार्थना, शोकः पुवादिविनाशजं दैन्यं, भयमपकारकानुसन्धानजं दैन्यम्, क्रोधः प्रवपो येन प्रज्वलितमिवात्मानं मन्यते, मानः सदसद्गुणाद्यारोपेणात्मन्युत्कर्षप्रत्ययः, जुगुप्सितं गोपनेच्छा, लज्जा, तदभावो नैर्लज्ज्यं ; समाने द्रव्ये परसम्बन्धप्रतिषेधेच्छा ईर्ष्या, अतिराग उचित एव विषये पुनःपुनः प्रवर्त्तनेच्छा। अभिध्यानमतिमात्रेहारम्भणं, यदि वा परद्रव्यविषये स्पृहा। For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy