SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३४० www.kobatirth.org चरक संहिता | · Acharya Shri Kailassagarsuri Gyanmandir मद्यमल्पं न वा पेयमथवा सुबहूदकम् लवणाम्लकटपणानि व्यायामञ्चात्र वज्जयेत् ॥ दिवा शीतगृहे निद्रां निशि चन्द्रांशुशीतले । भजेच्चन्दनदिग्धाङ्गः प्रवाते हर्म्यमस्तके ॥ व्यजनैः पाणिसंस्पशैश्चन्दनादकशीतलः । सेव्यमानो भजेदास्यां मुक्तामणिविभूषितः ॥ For Private and Personal Use Only इति । तस्य विशेषणं शीतं सशर्करम् । मदामल्पमित्येकान्तमदासात्मनेति बोध्यं नात्यर्थमद्यसात्मेन तु पुंसा न वा पेयम् । स्वभावतः पाकतश्चाम्लस्य तीक्ष्णस्य च मद्यस्य ग्रीष्मतुल्यगुणत्वात् सात्मप्रमद्यत्यागादुद्वेगे तु अथवा सुबहूदकं मद्य पेयं, सुबहूदकसम्बन्धेन मद्यस्याम्लोष्णतीक्ष्णत्वाल्पीभावात् । एवं लवणादीनपि आग्नेयत्वेन तुल्यत्वाद ग्रीष्मस्य वज्जयेत् : व्यायामन्तु दुब्बैलभावात् । दिवेति । दिवाऽतिदैर्ध्यान्न विरुध्यते निद्रा शैत्याच्च युज्यत एव । चन्द्रांशुशीतले इति गृहविशेषणं चन्द्रांशुपदमत्र शिशिरोपलक्षितं तेनोड - मनाgतगृहे इत्यर्थः । प्रवाते प्रकर्षण वातो यत्र तस्मिंस्तथा एतच्च गृहहम्म्यमस्तकाभ्यामन्वेतव्यम् । पाणिसंस्पर्शरिति दासदास्यादीनां चन्दनोदकशीतलैरिति व्यजनपाणिस्पर्शाभ्यामन्वेतव्यम् । आस्यामुपवेशनासनम् । एतद्वचनन्तु मध्याह्नातिप्रचण्डकरोदये विध्यभिप्रायेण बोध्यम् । सर्वोत्तरं मैथुनविरतिविधानादिवाविध्यभावान्निशि च मैथुनविरतिर्बोध्या । सुश्रुते चोक्तम् व्यायाममुष्णमायासं मैथुनञ्चातिशोषि च । रसांचाग्निगुणोद्रिक्तान् निदाघे परिवज्जयेत् ॥ सरांसि सरितो वापीर्वनानि रुचिराणि च । चन्दनानि पराणि स्रजः सकमलोत्पलाः ॥ तालवृन्तानिलान् हारांस्तथा शीतगृहाणि च । काले निषेवेत वासांसि सुलघूनि च । शर्कराखण्डदिग्धानि सुगन्धीनि सान्द्राश्र मन्थ इत्यभिधीयते । मद्यमल्पमित्येकान्तमद्यसात्म्येन, न वेति मद्यस्य स्वभावपाकाभ्यामम्लस्य ग्रीष्मविरुद्धत्वेन, सुबहूदकमिति मद्यसात्म्यस्यैव मद्यस्योष्णाम्लत्वाद्यपवादार्थं बहुतरपानीयं प्रक्षिप्य पातव्यमिति दर्शयत ; तेनैतत् फलति, यद्-मद्य ग्रीष्मे न पातव्यमेव तावत्, मद्यसात्म्यानां मद्यत्यागे सात्म्यत्यागजा रोगा भवन्ति तेन तस्याल्पं वा सुबहूदकं वा ; तस्याशितीयः 6
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy