SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३४ चरक-संहिता। तस्याशितोयः अभ्यङ्गोत्सादनं मूद्धि तैलं जेन्ताकमातपम् । भजेद भूमिगृहञ्चोष्णमुष्णणं गर्भगृहं तथा ॥ शीते सुसंवृतं सेव्यं यानं शयनमासनम् । प्रावाराजिनकोषय-प्रवेणीकुत्थकास्तृतम् ॥ गुरूष्णवासा दिग्धाङ्गो गुरुणाऽगुरुणा सदा । शयने प्रमदां पोनां विशालोपचितस्तनीम् ॥ निवृत्त्यर्थ सर्वः स्निग्धाम्लादिविधिरविरुद्धो भवतीति बोध्यम् । उष्णञ्चेति चकारेण यवगोधूमादयोऽपि बोध्याः । ___ हमन्तिकाहारविधिमुक्ताऽऽचारविधिमाह - अभ्यङ्गत्यादि। उत्सादनं हरिद्रादिकल्कम्रक्षणम् । जेन्ताकः स्वेदविशेषो वक्ष्यमाणः स्वेदाध्याये। आतपं रौद्रम् । भूमिगृह मिष्टकाममृन्निर्मितगृहम् । गर्भगृहं तदिष्टकाममृदन्यतरनिर्मितगृहान्तवर्तिकोष्ठकगृहम् । शीते इति तु-हैमन्तिकप्रकरणाल्लब्धेऽपि-पुनये दुक्तं तत् प्राषि मेघवातवर्षजे शीतेऽपि प्रतिविधानार्थम् । इदं स्मृखा तत्रापि शीते निषेव्यमिति बोध्यम्। अत एव सामान्यतः कालजशैत्यनिवारणविधिरेष इति ज्ञापितमित्यर्थः। सुसंवृतं सम्यगातमिति गृहविशेषणं स्थानमिति वा शेषः। यानं हयादिकम् । शयनं शय्या। आसनमुपवेशनस्थान, तद्विशेषणं प्रावारेत्यादि । प्रावारो गुरु प्रावरणं कम्बलादि । अजिनं व्याघ्रादिचर्म। कोषयं कोषकारकीटकृततन्तुनिर्मितं वस्त्रादि । प्रवेणी वेणीति प्रसिद्धा । कुत्थकश्चित्रकम्बलम् । एषामिष्टतमेनास्तृतमास्तरणीकृतम्। अत्राऽजिनपदेन लोनां, कोषेयपदेन तूलकानामवबोधः। गुरूष्णवासाः पुरुषः। वाससो गुरुत्वोष्णले बहुलकोषेयखेन बोध्ये । गुरुणा घनीकृतलेपेनाऽगुरुणा घृष्टेन दिग्धाङ्गो भूखा सदा नित्यं प्रायेण वा । शयने इति उक्त प्रावाराद्यास्तृते। पीनां निविड़ाऽकृशाङ्गी प्रमदां मदनमदोत्पत्तिप्रारम्भवतीं यौवनाढ्यामित्यर्थः। सा च विशालो आयामेन उपशीतेष्विति पदं वर्षाकालादावपि शीतप्राप्तौ संवृतयानादिसेवोपदर्शनार्थम्। प्रावारो गुरु प्रावरणं कम्बलादि, अजिनं व्याघ्रादिचर्म, कौषेयं कोषकारकीटतन्तुमयं, प्रवेणी गोणीति प्रसिद्धा, कुत्थकश्चित्रकम्बलं, गुरुणागुरुणेत्यगुरुघनप्रलेपेनेत्यर्थः। विशालावायामेन, उपचितौ परिणाहेन, For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy