SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इष्ठ अध्यायः सूत्रस्थानम् । ३१७ नद यथा-निमित्तानुरूपेण कश्चित् प्रहरादूद्ध भुङ्क्ते ; कश्चित् प्रहरद्वयादित्यादि। नित्यन्तु सार्द्धप्रहरद्वयाभ्यन्तरे दिने। रात्रौ प्रहरादागिति । तदपि स्वस्थवृत्तं भवदपि नात्र दिनादिभेदेन वत्सरस्याङ्गमुक्तम् ऋतुसात्म्यशाने हेतुभूतत - शानार्थमृतुभिवेत्सरस्याङ्गभेद उपदिष्ट इति । ननु संवत्सरकालो यथैवर्तु भेदेन भिद्यते : दिवसश्च तथा। महाकालः शीतोष्णवर्षलक्षणैरनुमीयते ; तदात्यैव पक्षमासत्त्वेयनवत्सरयुगादय उच्यन्ते। यथा संवत्सरावृत्त्या युगादिद्विपरार्द्धान्तः काल उच्यते भवद्भिः। उक्तं हि सुश्रुते-“तत्र पूर्वाह्न वसन्तस्य लिङ्ग, मध्याह्न ग्रीष्मस्य, अपराह्न प्रादृषः, प्रदोषे वार्षिकं, शारदमर्द्धरात्रे, प्रत्यूषसि हैमन्तमुपलक्षयेत् । एवमहोरात्रमपि वर्षमिव शीतोष्णवर्ष लक्षणं दोषोपचयप्रकोपोपशमनैर्जानीयात्” इति । अत्रोच्यते-संवत्सर इव शीतोष्णवर्षलक्षणोऽपि दिवसो न महाकालतयोपलभ्यते। ग्रीष्मत्त कदिवसस्य यथा शीतोष्णवर्षलक्षणवं, न तथा हेमन्तत्तु कदिवसस्य । तत्र हि शीतमधिकमुष्णखमल्समनल्पञ्च वर्ष नीहारस्येति । ग्रौष्मिकदिवसातिरिक्तवं हैमन्तिकदिवस्येति । संवत्सरो महाकालो न दिवसः। न चैवं हेमन्तादीनां स्वलक्षणादतिशयशीतोष्णादिलक्षणखे तस्य संवत्सरस्यातिरिक्तववारणाथ कालातियोगो भवद्भिवक्तव्य इवास्माभिहमन्तिकदिवसस्य दिवसखलक्षणातिशयलक्षणवेन दिवसातियोगो वाच्यः, स एव कालातियोग इति वाच्यमस्माकम् । कालातियोगे हि ऋतुव्यापत्तिजा भावव्यापत्तयो भवन्ति यथा, तथा युष्माकमपि स्वलक्षणयोगे भवन्तु ऋतुव्यापत्तिजा भावव्यापत्तय इत्यापत्तिः स्यात् । ननु नौष्मिकदिवसस्य प्राहादीनां यथा कफादिजनकवं न तथा हैमन्तिकदिवसस्येति। युष्माकमिवास्माकं ते एव कालातियोगलक्षणत. व्यापत्तिजा व्याधयो भवन्त्येवेति चेत् न, उक्त हि ‘स्वलक्षणयोगे ऋतुस्वभावजे भावानां सम्पद्व्यापत्ती।"तद्यथा- “भाद्रपदाश्वयुजौ वर्षाः,कार्तिकमार्गशीषों शरत्, पौषमाघौ हेमन्तः, फाल्गुनचैत्रौ वसन्तः, वैशाखज्यैष्ठौ ग्रीष्मः, आषाढ़श्रावणौ प्राडिति। तत्र वर्षास्वोषधयस्तरुण्योऽल्पवीर्य्याः, आपश्चाप्रसन्नाः क्षितिमलप्रायाः। ता उपयुज्यमाना नभसि मेधावतते जलपक्लिन्नायां भूमौ क्लिन्नदेहानां प्राणिनां शीतवातविष्टब्याग्नीनां विदह्यन्ते, विदाहाच्च पित्तसञ्चयमापादयन्ति, स सञ्चयः शरदि प्रविरलमेघे वियत्युपशुष्यति पङ्के ऽककिरणप्रविलायितः पैत्तिकान् व्याधीन् जनयति। ता एवौषधयः कालपरिणामात् परिणतवीर्या बलवत्यो हेमन्ते भवन्ति, आपश्च प्रसन्नाः स्निग्धा अत्यर्थ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy