SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०२ चरक-संहिता। [ मात्राशितीय; तैलमेतत् त्रिदोषन्नमिन्द्रियाणां बलप्रदम्। प्रयुञ्जानो यथाकालं यथोक्तानश्नुते गुणान् ॥ २४ ॥ आपोथिताग द्वौ कालो कषायं कटुतिक्तकम्। भक्षयेद् दन्तपवनं दन्तमांसान्यबाधयन् ॥ निहन्ति गन्धवरस्यं जिह्वादन्तास्यजं मलम् । निष्कृय रुचिमाधत्ते सद्यो दन्तविशोधनम् ॥ २५ ॥ त्रीणि दिनानि हिला परदिनं त्रिभि वनरर्द्ध पल तैलं पिचुना स्निग्धस्विन्नोत्तमाङ्गस्य प्रयुञ्जीत, तदिनमारभ्य पञ्चमदिनं पुन नदिनं भवति । यतः पुनस्वाहाच त्रीणि दिनानि हिला परं दिनं तथैव प्रयुञ्जीत । एवं सप्ताहमेव अर्थान्मासि मासि नावनकम्म समाचरेत । एतेन दिनत्रयं न दत्त्वा नावनमपरदिने दद्यादित्यर्थः । अस्य प्रणिहिततैलस्योपचारमाह-निवातेत्यादि। यथोक्तान् यथा प्रोक्तान्, न खव्ययीभावः। अथ प्रत्यासत्त्योद्धजनकार्यवेन च दन्तकाष्ठं गुणत आचार्यणोक्तं, किन्वसंगत्या प्रातःकृत्यं नोक्तं तदत्र बोध्यम् । तद्यथा-"ब्राह्म मुहूर्त उत्तिष्ठेत स्वस्थो रक्षार्थमायुषः। शरीरचिन्तां निर्वय॑ कृतशौचविधिस्ततः॥" इति। “उदयात् पूर्वमुहूतौं ब्राह्मरौद्रौ क्रमाद्विदुः” इति ॥ २४ ॥ गङ्गाधरः-आपोथिताग्रमित्यादि। पुथ हिंसे इत्यस्याङ्पव्वेकखेनापोथितं कुट्टितमित्यर्थः। द्वौ कालाविति प्रातः सायश्च। अत्र केचित “प्रातभुक्ता च मृद्वयम्” इति पठन्ति, तन्न, भुक्त त्यनेन सायमित्यर्थलाभात्। भक्षयेदिति चौरादिकभक्षिः। भक्षणं चव्वणमात्रमिह विवक्षित गलाधःकरणजनकचर्वणादिव्यापारस्य भक्षाथवेऽप्यत्र तु गलाधःकरणे विवक्षाभावात । दन्तपवनं पूयन्ते दन्ता अनेनेति दन्तकाष्ठम्। दन्तमांसानीति दन्तवेष्टनमांसानि । अबाधयन्नघर्षन् । गुणमस्याह–निहन्तीत्यादि। दन्तविशोधनं कर्त मल निष्कृष्येति सम्बन्धः। सद्यो रुचिमाधत्ते इत्यर्थः ॥२५॥ तूलकपिण्डिकया, नावनैस्त्रिभिस्त्रियेणेत्यर्थः । यह त् पहादिति एकैकं दिनमन्तरीकृत्य, सप्ताहमित्यन्तरितदिनानि वर्जयित्वा तेनैकैकस्मिन् ऋतौ त्रयोदशाहं नस्यप्रयोगः समाप्यते ॥२४॥ चक्रपाणिः-स्थानप्रत्यासत्या दन्तकाष्टगुणान् दर्शयति-आपोथितेत्यादि। द्विकालं सायं प्रातरिति । दन्तान् पुनातीति दन्तपवनं दन्तकाष्ठ ; निष्कृष्य मलमिति सम्बन्धः। ककुभो For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy