SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६२ चरक-संहिता। [ मात्राशितोयः तथा वातकफात्मानो न भवन्त्यू जत्रु जाः। रोगास्तस्य तु पेयाः स्युरापानास्त्रिस्त्रयस्त्रयः॥ मुक्तकण्ठेन प्रायोगिकधूमपानकालोऽभिहितो न खितरधूमपानयोः” इति व्याख्यायते। यदपि च “प्रयोगपाने सततपाने स्वस्थाधिकारीयधूमपाने इति यावत तेन धमत्रयस्याप्यष्टौ काला भवन्त्युक्ता अत एव तथा वातकफा इत्यादि ग्रन्थो न पुनरुक्तः स्यात् । वातात्मानः कफात्मानो वातकफात्मानश्चोर्द्ध जत्रुजा रोगाः क्रमात स्नैहिकधमपस्य मूद्धवैरेचनिक धूमपस्य प्रायोगिकधूमपस्य न भवन्ति इति व्याख्यानेन सङ्गतश्च स्यादिति” व्याख्यायते तदपि न मनोरमं स्यात् अत्र हि स्नानाद्यनन्तरं न केवलपातकालः तत्र च रनैहिकधूमपान न विधीयते तस्माद्वातकफात्मानो वातश्लैष्मिका एव न तु वातात्मानः कफात्मानश्चेति उत्ताष्टकाले हि वातक कोत्क्लेशवचनात् रुक्षस्य धूमनिषेधाच्च । नन्यस्य त्रिविधधूमं पिवतो यथाकामं धूमस्य पानमोक्षौ भवतो न वैत्यत आह-तस्य तु पेया इत्यादि । तस्य स्नाखा भुक्खा इत्याद्यष्टानां कालानामेकस्मिन्ने कस्मिन् काले त्रिविधान्यतमधूमपस्य पुरुषस्य त्रिस्त्रिवारीभूतास्त्रयः कालाः पेयास्त्रिवारीभूतास्त्रयः कालाः आपानाश्च पानसीमाश्च स्युः स्नानावनन्तरैककालस्य धुमाकर्षणवेगकालखेन नवसंख्यायाः पानव्याप्ताधिकरणलेन कर्मसंज्ञायां तद्वाच्ये क्षणे कृताः पेया इति पदम्। धूमः पीयतेऽस्मिन् काले इति पानः पानकालः पानादा सीमा इत्यापानाः पानकालसीमाः । त्रयस्त्रय इति वीप्तायां द्विभावस्तेनैवाष्टस कालेष्वेवैकैकस्मिन् काले इत्यर्थी लभ्यते । तथा च स्नानाद्यनन्तरमेकैकालन् काले त्रिविमा यतम एको धूमस्त्रिवारीभूतात्रयो नव वाराः सन्तः पेया अपानाच युरियर्थः। उभयथैव स्नानाद्यनन्तराष्टकालानामेकैकस्मिन् काले नव वारान् धूमस्य पानं मोक्षश्च इत्यष्टादश पानमोक्षा मोक्षव्यवहितपानानि नव पानव्यवधायकमोक्षाच नवेति फलिताथः। वातकफात्मशब्देन वातात्मानः कफात्मानो वातकफास्मानश्च गृह्यते। पेयाः स्युरित्यादावापाना धूमान्यवहारमोक्षाः, एकैकस्मिन् सानादिधूमपानकाले, विरिति आवृत्तित्रय कर्तव्याः ; ते चावृत्तित्रयेऽपि विधा त्रिधा कर्तव्याः ; एकैकारमन् धूमपानकाले नव धूमाभ्यवहारमोक्षाः कर्त्तव्याः ; त्रीस्त्रीनभ्यवहारान् कृत्वा विश्नामोऽन्तरा कर्त्तव्य इत्यर्थः । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy