SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। [दोर्ष जीवितीयः अथ ते शरणं शक्र ददृशुानचक्षुषा। स वक्ष्यति शमोपायं यथावदमरप्रभुः॥४ कः सहस्राक्षभवनं गच्छेत् प्रष्टुं शचीपतिम् ॥ अहमर्थे नियुज्येऽयमति प्रथमं वचः । भरद्वाजोऽब्रवीत् तस्मादृषिभिः स नियोजितः ॥५ गङ्गाधरः-ननु ध्यानधारणेन किमभूदित्याह ;-अथेत्यादि। अथ ध्यानावस्थानानन्तरं ते ध्यानस्था अङ्गिर प्रभृतयो महर्षयः शक्र मघवानं शरणं ध्यानचक्षुषा चिन्ताशालिमनसा निश्चयबुद्धिलक्षणचक्षुषा ददृशुः। ननु शक्र शरीरिणां विघ्नसमुत्पत्तो शरणत्वेन यद ध्यानचक्षुषा ते महर्षयो ददृशुस्तत् किं शक्रः शरीरिणां चिकित्सया विघ्नभूतरोगोपशमं करिष्यति . उतान्यथा वेत्यत आह, स वक्ष्यतीत्यादि। स शक्रश्चिकित्सया न शरीरिणां विघ्नभूतरोगोपशमं करिष्यति, किन्तु यथावत् यथारिधिना व्याधेः शमोपायं वक्ष्यति। इत्थमेव शक्र शरणं ददृशुरिति भावः॥४॥ गङ्गाधरः-अथ मुनयः किं चक्रुरिति महषीणां तत्र कृतेतिकर्तव्यतामाह-कः सहस्राक्षेत्यादि । शचीपतिरित्यनेन शचीसिक्तरेतसमपि शक्र सर्वलोकपालकखादुपासितुमर्हतीति सूचितम् । सर्वेषु महर्षिषु परस्परं भाषमाणेषु प्रथमं भरद्वाजस्तान् महर्षी न् अत्रार्थेऽस्मिन् प्रयोजनेऽयमहं नियुज्ये भवद्भिरिति वचो यस्मादब्रवीत् तस्माद्भरद्वाज ऋषिभिरङ्गिरःप्रभृतिभिर्नियोजितःप्रेरित इति । ऋषिप्रोक्तो भरद्वाज इति यत् पूर्वमुक्तं तत्र ऋषिप्रोक्तिविवरणमेतबोध्यम् ॥ ५॥ सामान्येनाभ्युदयवाचिना धर्मादयोऽभिधीयन्ते, जीवितशब्देन च जीवितं, यतो जीवितं स्वरूपेगैध सम्बप्राणिमा निरुपाध्युपादेयं, वचनं हि " आचक्रिमेव च ब्रह्मण इयमात्माशीरायुष्माणभूयांसम्" इति यत्त्वत्यन्तदुःखगृहीतस्य जीवितं जिहासितं, तत्र दुःखस्यात्यन्तजिहासितस्यान्यथाहातुमशक्यत्वात् प्रियमपि जीवितं त्यक्तुमिच्छति न स्वरूपेण । अन्तराय इति धादिसाधने बोद्धन्यः । अयमिति रोगप्रादुर्भावरूपः, तेषामिति रोगाणां, शरणमिति रक्षितारं, शक्तत्वाच्छक उच्यते, ध्यानं समाधिविशेषस्तदुपलब्धिसाधनत्वात् चक्षुरिव ध्यानचक्षुः, तेन “स वक्ष्यति शमोपा यथावदमरप्रभुः" इति च ध्यानचक्षुषा ददृशुरिति योजना ॥ ३॥४॥ चक्रपाणिः-अथैतेषु मध्ये भरद्वाजः कथमिन्द्रमुपागत इत्याह क इत्यादि।-शचीपतिमित्य. नेम शचीसम्भोगन्यासक्रमपि अहमुपासितुं क्षम इति भरद्वाजो दर्शयति, अर्थे प्रयोजने, नियुज्ये पापाग्येयं, भन्न प्रकृते, अनतिशब्दो यमादर्थे, यथा “सुभिक्षमित्यागतः" यस्मात् सुभि For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy