SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५म अध्यायः २८७ सूत्रस्थानम् । हरेणुकां प्रियङ्गश्च पृथ्वीका केशरं नखम् । हीवेरं चन्दनं पत्रं त्वगेलोशीरपद्मकम् ॥ ध्यामकं मधुकं मांसी गुग्गुल्वगुरुशर्करम् । न्यग्रोधोडुम्बराश्वत्थ-नक्षलोधत्वचः शुभाः॥ वन्यं सर्जरसं मुस्तं शैलेयं कमलोत्पले। श्रीवेष्टकं शल्लकीञ्च शुकबहमथापि च ॥ पिष्ट्रा लिम्पेच्छरेषीकां तां वर्ति यवसन्निभाम् । अङ्गष्ठसंमितां कुर्य्यादष्टाङ्ग लसमां भिषक् ॥ दोषदुष्ट्यभावात दृष्टि ति । दृष्टान्तान्तरमाह-नभसीत्यादि । अनेन दृष्टान्तेन दृष्टस्तेजोमयलेऽपि मण्डलस्य सौम्यत्वमपि ख्यापितं चन्द्रमण्डलवत् ॥९॥ गङ्गाधरः-अथाञ्जनप्रयोगानन्तरं दृष्टेः प्रसादन श्लेष्महर कर्म हितमिति यदुक्त तत् तु शालाक्येऽप्युक्तम् -“तीक्ष्णाञ्जनेनाञ्जितलोचनस्य यः सम्पदुष्टो न निरेति नेत्रात् । श्लेष्मा शिरःस्थः स तु पीतमात्र धूमे प्रशान्तिं लभते क्षणेन ॥" इति ; स्वयमपि वक्ष्यति—“नावनाञ्जननिद्रान्ते चात्मवान् धूमपो भवेत” इति । तेनाञ्जनानन्तरं धूममाह-हरेणुकामित्यादि । हरेणुका रेणुकेति ख्याता, प्रियङ्गः खनामख्याता, पृथ्वीका कृष्णजीरक, केशर नागकेशरं, नखं नखी, हीबेरं बालकं, चन्दनमत्र श्वेतं, पत्रं तेजपत्र', वक् गुड़खक, एला स्थूला, उशीरं वीरणमूलं, पद्मकं पद्मकाष्ठं, ध्यामकं गन्धतृणं, मधुकं यष्टीमध, मांसी जटामांसी, गुग्गुलुः पुरः, अगुरुः कृष्णागुरुः, शर्करा सिता, समाहारद्वन्द्वखात् क्लीवमेकवचनश्च । न्यग्रोधादीनां लोधान्तानां पञ्चानां शुभा भद्रास्वचः वल्कलानि । वन्य कैवत्तेमुस्तकं, सज्जरसं धूनकः, मुस्तं भद्रमुस्तकं, शेलेयं शैलज, कमलोत्पले पद्मकुमुद तयोः किञ्जल्कः, श्रीवेष्टकं नवनीतखोटी। शल्लकी शिलारस इति लोके, शुकबह ग्रन्थिपणेम् । एतानि सर्वाणि जलेनानुक्तखात् पिष्टवा चक्रपाणिः-इहैवाञ्जनान्ते धूमपानं विधास्यति “नावनाञ्जननिद्रान्ते” इत्यादिना ; अतोऽअनानन्तरं धूमोऽभिधीयते, उक्तञ्च शालाक्ये-"तीक्ष्णाञ्जनेनाञ्जितलोचनस्य यः सम्प्रदुष्टो न निरेति नेत्रात्। श्लेष्मा शिरःस्थः स तु पीतमात्र धूमे प्रशान्तिं लभते क्षणेन ॥” हरेणुकामित्यादि। - हरेणुका रेणुका, पृथ्वीका कृष्णजीरकं, केशरं नागकेशरं, पद्मकं पद्मकाष्टं, ध्यामकं गन्धतृणं, न्यग्रोधादीनां लोध्रान्तानां त्वचस्तासां विशेषणं शुभा इति, वन्यं कैवत्तमुस्तकं, शुकबह For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy