________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः सूत्रस्थानम् ।
२७३ पदार्थाख्यतत्रयुक्त्या अशन-वादन-लेह-पानभेदेन चतुर्विधाहारे वर्त्तते । मात्राविवरणे ह्यत ऊर्द्ध माहारमात्रा पुनरिति वक्ष्यते। अशनवाचिनां द्रव्याणां गलाधोगमनजनकव्यापारोऽशनं, खादनं पुनः कठिनद्रव्याणां, लेहस्तु नातिकठिननातिद्रवद्रव्याणां जिह्वयाकर्षणपूर्वकः, पानन्वतिद्रवद्रव्याणामिति । यत् तु ‘खादालेह्यपेयद्रव्याणां मात्रयाऽभ्यवहारो नोक्तः' इति व्याख्यायते, तदनेनापास्तम् । यद, वा कठिननातिद्रवातिद्रवान्यतमैकद्रव्यस्य सतताभ्यव. हारे तु न समाग्निरक्षणं स्यादिति ज्ञापनार्थमोदनादिप्रधानाशनीयद्रव्यस्याशनप्रयोगात् खादाडेह्यपेयानामुपकरणतया प्राधान्याभावेनाशनप्रयोगाभावात् मात्राशी स्यादित्युक्तमाचायण। यथा व्यञ्जनेनान्नमश्नाति, घनावर्तिरपयसाऽन्नमश्नाति, पयसान्नमश्नातीत्यादो व्यञ्जनघनावत्तितपयःपयसां खाद्य. लेह्यपेयानामन्नाशनेनाभ्यवहारे सिद्धेऽप्यन्नस्यैवाशनप्रयोगो न तेषां खादनलेहपानप्रयोग इति । ___ मात्राशनशीलेन वृत्तवं पुरुषस्येष्टसाधनमित्यतो मात्रयैवाश्नीयादिति कर्तव्यतयाचार्येणोपदेशः कृतः। तत्र मात्राशनशीलेन वृत्तवस्य पुरुषेष्टसाधनखसिद्धौ तार्थ युक्तिमुपदर्शयितु प्रथमं का मात्रा इति शिष्य. प्रश्नमाशङ्कयाह-आहारमात्रा पुनरित्यादि। अत्र मात्रा पुनरिति नोक्त्वा यदाहारमात्रेत्युक्त तदभेषजादीनां व्याध्यातुरवलापेक्षिणा व्यायामादीनाञ्च मात्राया निरासार्थम्, अशिधावविवरणार्थश्च न पुनःशब्दः शिष्य
हरीतक्याम् “एकान्ततः प्राश्य ततश्च लेहात् शुक्तिनिहान्त श्वयथु प्रवृद्धम्' ; तथा “क्षीराशी तं प्रयोजयेत्” इति ; इतश्चावगन्तव्यम्, अशिरयं सर्वाभ्यवहारे वर्त्तते, येनैतद्विवरणं सामान्येनैव कृतमाहारमाता पुनरिति न पुनरशितमात्रा पुनरिति।
मात्रां व्याकरोति--आहारेत्यादि। अग्नेबलमुत्कृष्ट मध्यमल्पं काऽपेक्ष्योत्कृष्ठा मध्याऽल्पा वा मात्रा स्थादित्यग्निबलापेक्षिणी। पुनःशब्दो भेषजादिमात्रां व्यायाममात्राञ्च न्यावर्त्तयितु, तेन न सर्वमात्राऽग्निबलापेक्षिणी ; यतो भेषजमात्रा व्याध्यातुरबलापेक्षिणी वक्तव्या, व्यायामस्य तु दोषक्षयाग्निवृद्धवाद्य पादश्रमाद्यनुत्पादापेक्षिणी व्यवस्थापयितव्या। यदि वा पुनःशब्दः पौनःपुन्ये, तेनाहारमात्रा पुनःपुनरग्निबलमपेक्षत एतदुक्त स्यात् ; यत एकस्मिन् पुरुषे एकदा याऽग्निबलेन व्यवस्थापिता मात्रा सा न सबकालं स्यात्, यत ऋतुभेदेन वयोभेदेन च तस्यैवाग्निः कदाचिद्विवृद्धो भवति यथा- हेमन्ते यौवने च, कदाचिन्मन्दो भवति यथा-वर्षासु वालुक्ये च, तेनाग्निबलभेदात् मात्राप्येकरूपा न स्यात्, किन्तु तत्कालभवमग्निबलमपेक्ष्य पुनःपुनर्मात्रापि भिद्यत इति ।
For Private and Personal Use Only