SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। [ दीर्घजीवितीयः ब्रह्मज्ञानस्य निधयो यमस्य * नियमस्य च । तपसस्तेजसा दीप्ता हूयमाना इवाग्नयः॥ सुखोपविष्टास्ते तत्र पुण्यां चक्र : कथामिमाम् ॥ धर्मार्थकाममोक्षाणामारोग्यं मूलमुत्तमम् । रोगास्तस्यापहन्तारः + श्रेयसो जीवितस्य च ॥ गङ्गाधरः-तेषां महर्षीणां साधम्यमाह, ब्रह्मशानस्येत्यादि। ब्रह्मणो शानं ब्रह्मज्ञानं तस्य । ब्रह्म पुनः यतोवाचेत्यादि निगमनिर्दिष्टम् तस्य ज्ञान स्वरूपश्चानम् । यमस्य नियमस्य चेति । यमनियमौ द्वौ दशकौ । तथोक्तमत्रिसंहितायां स्मृतिशास्त्र - "आनृशंस्य क्षमा सत्यमहिसा दानमाजवम् । प्रीतिः प्रसादचाचौर्य माई वञ्च यमा दश । शौचमिज्या तपो ध्यानं स्वाध्यायोपस्थनिग्रहो । बतमौनोपवासाथ स्नानश्च नियमा दश ॥ यमान् सेवेत सततं न नित्यं नियमान् बुधः । यमान् पतत्यकुर्वाणो नियमान् केवलान् भजन ॥" इति। निधयो निधानस्थानानि। तपसस्तेजसा तपोजनितब्रह्मतेजसेत्यर्थः । ननु तेषां महर्षीणां हिमवत्पाश्र्वे समागमनेन विनभूतरोगेषु विषयेषु किमभूदित्यत आह, मुखोपविष्टा इत्यादि। तेऽगिरःप्रभृतयो महर्षयस्तत्र शुभे हिमवतः पार्वे पुण्यां पुण्यजनिकां भूतहितत्वात् कथां प्रबन्धकल्पनामित्यर्थः॥ गङ्गाधरः-इमामिति यदुक्तं तदाह ;-धर्मार्थत्यादि। धर्मः पुण्यमों धनं कामोऽभिलाषस्तद्विषयः स्वर्गादिश्च । मोक्षो विषयवासनात्यागजनितसुखदुःखेषु चरमदुःखत्यागपूर्वकचरमसुखसाक्षात्कारः। इति कश्चित् । तत्र विशेषणं, वक्ष्यति हि "तन्नति भिक्षुरात्र यः" इति, वैखानसा इति, कम्मविशेषप्रयुक्रा संज्ञा, बालखिल्यास्तु स्वल्पप्रमाणाः केचिदृषयः ; निधय इव निधयोऽक्षयस्थानत्वेन, दमो दान्तत्वम्, इमामित्यने वक्ष्यमाणाम् ॥ चक्रपाणि:-धारणाद्धम्म: स चात्मसमवेतः कार्यदर्शनानुमेयः, अर्थ : सुवर्णाविः, काम्यत इति कामो वनितापरिव्वङ्गादिः, मोक्षः संसारविमोक्षः, आरोग्यं रोगाभावाद्धातुसाम्यं, मूलं कारणम्, * दमस्येति चक्रः। + तस्यापहत्तार इति चक्रः । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy