SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५० चरक-संहिता। पद विरेचनशताश्रितोयः कषायवर्गः (७)। कासहरः श्वासहरः शोथहरः ज्वरहरः श्रमहरः इति पञ्चकः कषायवर्गः (८)। दाहप्रशमनः शीतप्रशमन उदईप्रशमनोऽङ्गमदेप्रशमनः शूलप्रशमन इति पञ्चकः कषायवगः (8) शोणितस्थापनो वेदनास्थापनः संज्ञास्थापनः प्रजास्थापनो वयःस्थापन इति पञ्चकः कषायवर्गः (१०)। इति पञ्चाशन्महाकषायाः, महताञ्च कषायाणां लक्षणोदाहरणार्थ व्याख्याता भवन्ति ॥ १०॥ विरेचनीय इति मूत्रस्य वर्तनाय हित इत्यर्थः। एष पञ्चक एकः कषायवर्गः पुष्कलाभिधान' नीयान्तसामान्यात् (७)। कासहर इत्यादि पञ्चक एकः कषायवर्गः हरान्तसामान्यात् पुष्कलाभिधानम् (८)। एवं दाहादिप्रशमनः पञ्चको व्याख्येयः (९)। शोणितस्थापन इत्यादिरेकः पञ्चकः स्थापनान्तसामान्यात् (१०) । इति समाप्ताः पञ्चाशन्महाकषायाः, नामत एव व्याख्याताः। महताश्च कषायाणां लक्षणोदाहरणार्थं लक्षणस्य पश्चाशन्महाकषाया इति लक्षणस्य महतां कषायाणामुदाहरणाथमित्यर्थः। न खवयवत इति। एषां पञ्चाशतो महत्त्व स्वप्रभावतो जीवनीयादित्वं स्वस्थातुरोभयपरायणखात् दशदशावयवभावाच ॥१०॥ मूत्रस्य विरेचनं करोतीति मूखविरेचनीयः । उदो वरटीदष्टाकारः शोथः, तत्पशमन उदईप्रशमनः, न पुनरिह महारोगाध्याये पठितो वातविकारो गृह्यते ; तिन्दुकादीनामुदईप्रशमनानां वातं प्रत्यननुकूलत्वात्। शोणितस्य दुष्टस्य दृष्टिमपहृत्य प्रकृतौ शोणितं स्थापति शोणितस्थापनम् । वेदनायां सम्भूतायां तां निहत्य शरीरं प्रकृतौ स्थापयतीति वेदनास्थापनम्। संज्ञां ज्ञानञ्च स्थापयतीति संज्ञास्थापनम् प्रजोपघातकं दोषं हत्वा प्रजां स्थापयतीति प्रजास्थापनम् । वयस्तरुणं स्थापयतीति वयःस्थापनम् । ___ उपसंहरति-इतीत्यादि। महतां कषायाणां पञ्चाशन्महाकषायाः भवन्तीत्यनेनोदिष्टानां लक्षणं स्वरूपं जीवनीयादीत्यस्योदाहरणं प्रपन्चेन कथनं, तदर्थं म्याख्याता निर्देशेन कथिता इत्यर्थः । यदि वा महतां कषायाणां यल्लक्षणम् अनेकैः कषायैर्मिलित्वैकार्थजीवनीयादिसम्पादनं तस्योदाहरणार्थ दृष्टान्तार्थम्। एतेनान्यान्यपि महाकषायाणि वातप्रशमन-पित्तप्रशममादीन्येककार्यसम्पादकान्येकद्रव्यमयाणि भवन्तीति सूचयतीति । महताम्चेति चकार उदाहरणार्थ घेत्यत्र For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy