SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः सूत्रस्थानम् । २३६ तत्र श्लोकः। इहात्रिजः सिद्धतमानुवाच द्वात्रिंशतं सिद्धमहर्षिपूज्यः । चूर्णप्रदेहान् विविधाभयन्नानारग्वधीये जगतो हितार्थम् ॥ २२ ॥ इति अग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते श्लोकस्थाने आरग्वधीयो नाम तृतीयोऽध्यायः॥ ३॥ बालकं, लो। प्रसिद्ध लोके, अभयमुशोरं, चन्दनमिह सौगन्ध्याश्वेतम् । अलमत्र पेषणार्थम् ॥२१॥ गङ्गाधरः--उक्तांश्चूण प्रदेहानुपसंहर्तु माह---तत्र श्लोक इति। इहात्रिज इत्यादिरेकः श्लोकः। इहारग्वधीयेऽत्रिजः कृष्णात्रिपुत्तुः पुनर्वसुः। सिद्धमहषिभिश्च पूज्यः सिद्धखात् सिद्धः सन् महर्षिभिः पूज्य इति वा द्वात्रिंशतं योगानुवाचेति संख्यावचन न्यूनाधिकनिरासार्थम ॥२२॥ अध्यायं समाप्तुमाह--अग्नीत्यादिना। प्राग्वत् सव्व व्याख्येयम्। अयश्चाध्यायः सहाथात इत्यादिन केनोनत्रिंशत्श्लोकी सह संग्रहश्लोकेन । इति श्रीमद्गङ्गाधररायकविरत्नकविराजकृते चरकजल्पकल्पतरौ सूत्रस्थानजल्प प्रथमस्कन्धे तृतीयाध्यायजल्पाख्या तृतीयशाखा ॥३॥ चक्रपाणिः-अध्यायार्थसंग्रह इहानिज इत्यादि।-चूणप्रदेहानिति पूर्णवद्वयाख्येयम् । द्वात्रिशमिति संख्याकरणं न्यूनाधिकसंख्यादुर्बोधनिराकरणार्थम् ॥ २२ ॥ इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचिताथाम् आयुर्वेददीपिकायां सूत्रस्थान व्याख्यायां आरग्वधोयो नाम तृतीयोऽध्यायः ॥ ३॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy