SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः सूत्रस्थानम् । तैलाक्तगात्रस्य कृतानि चूर्णान्येतानि दद्यादवचूर्णनार्थम् । दद् : सकण्डुः किटिमानि पामा विचर्चिका चैव तथेति शान्तिम ॥४॥ मनःशिलाले मरिच नि तैलमार्क पयः कुष्ठहरः प्रदेहः । तुत्थं विडङ्ग मरिचानि कुष्ठं लोधञ्च तद्वत् समनःशिलं स्यात् ॥ ५ ॥ रसाञ्जन सप्रपुन्नाड़वीजयुक्तं कपित्थस्य रसेन लेपः। करञ्जवीजैड़गजं सकुष्ठं गोमूत्रपिष्टञ्च परः प्रदेहः ॥ ६॥ कटकटेरी दारुहरिद्रा, काशीसं पुष्पकाशीसं, कम्पिल्लक कमलागुडीति लोके । सौगन्धिक कहारपुष्पं सुन्धोति लोके। सर्व स्पष्टार्थम् । अवचूर्णनं घर्षण तदर्थमिति तथा ॥४॥ __गङ्गाधरः-मनःशिलाले इत्यादि प्रदेह इत्यन्तमेको योगः। एष नवमो मनःशिलादि आर्क पय इत्यन्तैः पञ्चद्रव्यैः। तैलमिति सार्षपं कुष्ठहरत्वात् । आर्क पयः अर्बक्षीरम् । अर्कक्षीरेणव पेषणालेपने बोध्ये न तु जलेन । । तुत्थमित्यादिना समनःशिल' स्यादित्यन्तेनैक वाक्यम् । अत्र तद्वदिति कुष्ठहरः प्रदेह इत्यर्थः । स्यादिति। नात्र अक्षीरेण पेषणातिदेशः तस्य तत्र यौगिकखेनोक्तवाद ! तेनात्र जलेन पेषणालेपने बोध्ये। एष योगो दशमः॥५॥ गङ्गाधरः-रसाञ्जनमित्यादिना लेप इत्यन्तेन एक वाक्यं, योगश्चकस्त्रिभिद्रेव्यरेकादशः। प्रपुन्नाई चाकुन्दा तद्वीजम् । कपित्थस्य रसेनेति कपित्थपत्रस्वरसेन युक्तो लेप इति योज्यं, तेनात्र न जल पेषणालेपनार्थ, मित्यनेन सम्बध्यते। तैलञ्च कुष्टहरप्रकरणे सार्षपं बोद्ध न्यम्, * अमृतासङ्गस्तुत्थकम्, कटकटेरी दारुहरिद्रा, सौगन्धिकं गन्धतृणं गन्धको वा, आर्क पयः अर्कक्षीरं, तद्वदिति प्रदेहः कुष्टहरः, * अमृता गुडूची, सङ्गः तुत्थकमिति केचित् । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy