SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्य अध्यायः सूत्रस्थानम् । २२१ तान्युपस्थितदोषाणां स्नेहस्वेदोपपादनैः। पञ्च कर्माणि कुर्वीत मात्राकालौ विचारयन् ॥६॥ अनुवासन मारुतघ्नं स्नेहवस्तिभेषजमत एवास्सादेव पाटलादित औषधगणात् सङ्कल्पा स्नेहः साध्य इत्यर्थः। इति एप पाञ्चकम्मिकः संग्रहः संक्षपः प्रोक्तः॥५॥ गङ्गाथरः-एतानि शिरोविरेचन-वमन-विरेचनास्थापनानुवासनानि पञ्च कर्माणि न स्नेहस्वेदी विना काय्याणीति ज्ञापयितुमाह-तानीत्यादि। उपस्थितदोषाणां तत्सतकर्मसाध्यदोषोपस्थितौ नणां स्नेहस्वेदोपपादन विशिष्टानां मात्राकाली विचारयन् शरीरबलाद्यपेक्षया मात्रां कालञ्च मित्यनेन स्नेहसाधनं व्रते, अनुवासनं हि स्नेह एव स्यात् अनुवासनार्थ स्नेहसाधनद्रव्यं पृथङ्नोक्त निरूहाक्तिभेषजगणेनैव तसिद्धेः । मारुततमित्यनेनानुवासनवृत्तिविषयं दशयति, मारुते हन्तव्येऽनुवासनं प्रकल्प्यमित्यर्थः। यदि वा पाटल'देर्मारुतहरात् गणात् मारुतघमनुवासनं सङ्कल्प्यम्, अन्यत्र तु पित्तहरणाद गणात् पित्तनम्, तथा श्लप्महराद्णात् श्लेष्मातमिति सूचयति । संग्रह इत्यनेन रोगभिषगजितीये कल्पे सिद्धौ च वक्ष्यमाणपञ्चकम्मंग्रपञ्चं सूचयति ॥५॥ चक्रपाणिः--पञ्चकर्म यथा कर्त्तव्यं तथा तानीत्यादिना दर्शयति । तानीत्यादि पूर्वोक्तानि । स्नेहस्वेदोपपादनैरिति बहुवचन नानाविधस्नेहस्वेदोपदर्शनार्थम्। उपस्थितदोषाणामिति शाखां त्यक्त्वा कोष्टगमनेन तथा लीनत्वपरित्यागेन प्रधानावस्थाप्राप्तदोषाणाम्। तत्र पश्चकर्माप्रवृत्तावुपस्थितदोषत्वमेव हेतुः, तद् यदि स्नेहस्वेदोपपादनमन्तरापि स्यात् ; यथा ज्वरे---“कफप्रधानानुक्तिधान् दोषानामाशयस्थितान् । बुद्धा ज्वरकरान् काले वम्यानां वमनैहरेत्” इति। तत्र स्नेहस्वेदावन्तरेणापि वमनप्रवृत्तिर्भवत्येव। स्नेहस्वेदोपपादनन्तु प्रायिकत्वेन तथान्यथोपस्थितदोषेऽपि स्तोकमात्रया पञ्चकर्मप्रवृत्तिक्षोभजन्यवातजयार्थ क्रियमाणत्वेनोक्तम् । मात्राकालयोर्विचाय्यत्वेन ग्रहणं प्राधान्यात्, तेन दोषभेषजादयोऽपि विचार्यत्वेनेह बोद्धव्याः। यदि वा पूर्ववत् कालग्रहणादेव शेषाणां दोषादीनामवरोधो व्याख्येयः । तानीत्युक्तेऽपि पुनः पञ्चग्रहणं पञ्चानामप्युपस्थितदोषाणां वमनादीनां प्रवृत्तुपपदेशार्थम् । इह वमनादिषु कर्मलक्षणं-बह्वितिकर्त्तव्यतायोगिदोषनिर्हरणशक्तिज्यायस्त्वं, तेन तन्वान्तरेण स्नेहस्वेदौ प्रक्षिप्य सप्तकौणीति यदुव्यते तन्न स्यात् । न हि स्नेहस्वेदौ दोषं वहिनिःसरणं कुरुतः, दोषसंशमनन्तु कुरुतः ; पञ्चकाङ्गत्वेन व्याप्रियमाणौ स्नेहस्वेदौ दोषोपस्थान एव परं व्याप्रियेते, न हि दोषनिर्हरणे वमनादिसम्पाद्य । अनुवासनन्तु यद्यपि वमनादिवन्न बहुदोषनिर्हरणकारणं स्यात् तथापि पुरीषस्य पक्वाशयगवातस्य च वहिनिरिकत्वात् कर्मलक्षणप्राप्तमेव। निष्टीवननेवाक्षनादौ तु न स्नेहस्वेदादिवन बह्वितिकर्तव्यतायोगो न च बहुदोपनिरिकत्वं, तेन न तत्कर्मशब्द For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy