SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८६ चरक-संहिता। [ दीर्घजीवितीयः काण्याह-वाद्वम्लेत्यादि। स्वाद्वम्ललवणा वायुंजयन्ति वृद्धं समं कुर्वन्ति समं हासयन्ति क्षीणमतिहासयन्ति । नीरसखेऽपि वायोः स्वाद्वादिरससहचरितैः स्निग्धगुरुत्वादिभिर्मधुरः स्निग्धोष्णादिभिरम्लः स्निग्धोष्णगुरुत्वादिभिलेवण इत्येते वातविजेतृखन व्यपदिश्यन्ते। कषायस्वादुतिक्तकाः पित्तं जयन्ति शैत्यगौरवाभ्यां स्निग्धशीतगुरुखैः शैत्यरोक्ष्याभ्यां तिक्त स्तिक्तस्यापि पित्तस्य जयो वीर्याद्विदग्धखे सामखे च। श्लेष्माणं कषायकटुतिक्तका जयन्ति रौक्ष्येण लघूष्णरुक्षले रुक्षलघुखाभ्यामिति क्रमेणोन्नेयम् । एषां वातादिप्रशमकववचनेन कटादीनामेभ्यो भिन्नानां वातादिकोपनत्वमुन्नेयं वा तदपुक्तं “तत्राद्या मारुतं नन्ति त्रयस्तिक्तादयः कफम्। कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते” इति। अन्ये च पठन्ति “कटुम्ललवणाः पित्तं कोपयन्ति समीरणम्। कपायकटुतिक्ताश्च स्वाद्वम्ललवणाः कफम्” इति। अत्र कटुम्ललवणाः पित्तं कोपयन्ति रूक्षोष्णलघुवैः कटुको रसः पित्तं वृद्धं करोति उष्णतीक्ष्णकटुवैः क्षीण समं वा वृद्धं वा। अम्लो रसो लघूष्णखाभ्यां पित्तं सममुष्णतीक्ष्णखादिभि द्धं करोति क्षीण समं वा वृद्धं वा। लवणो रसः उष्णवेन पित्तं समं वर्धयति उप्णवतीक्ष्णवाभ्यां क्षीणं समं वा वृद्ध वा करोति। स्वाद्वम्ललवणाः कर्फ कोपयन्ति मधुरो रसः स्निग्धशीतगुरुत्वैः कर्फ समं वृद्ध करोति। अम्लो रसः स्निग्धत्वेन लवणो रसः स्निग्धवगुरुवाभ्यां क्षीणन्तु समं वृद्ध वा। कटुतिक्तकषायाश्च कोपयन्ति समीरणमिति कटुको रसः समीरण लघूष्णरुक्षवैस्तिक्तको रसः शीतरुक्षलघुवैः कषायो रसः शीतरुक्षवाभ्यां समं समीरणं वृद्धं करोति क्षीणं समं वा वृद्धं वा इति । केचिदत्र वातपित्तकफानां क्रमेण निर्णयव्युत्क्रमदोषपरिहारार्थञ्च “कषायकटुतिक्ताश्च कोपयन्ति समीरणम् । कटुम्ललवणाः पित्तं स्वाद्वम्ललवणाः कफम्” इति पठन्ति । तदेतत् पाठोत्र न सङ्गच्छते, वातादीनां प्रशमनप्रकरणात् प्रकोपणोपदेशस्यापेरतेन सिद्धः। रससहचरितस्निग्धत्वादिगुणैर्विपरीतैः प्रशमो ज्ञयः, एवं मधुरस्यापि श्लेष्मणोऽम्ललवणाभ्यां स्निग्धत्वाभिष्यन्दित्वादिसहचरितगुणयोगादेव वृद्धिः। अत्र च ये प्रशमकत्वेन रसा वातादीनां नोक्ताः, ते वड़ का बोद्धव्याः ; यदाह वाग्भटः “तत्राद्या मारुतं प्रन्ति त्रयस्तिक्तादयः कफम् । कषायतिक्तमधुराः पित्तमन्ये तु कुर्खते” इति। रसकर्मातिदेशेनैव गुणवीर्यविपाकानामपि कर्मनिर्देशः कृत एव, यतो मधुरादिरसेनैव सर्वगुणान् वीर्यविपाकांश्च निर्देक्ष्यत्यात्रेयभद्रकाप्यीये. "तत्र स्वादुः” इत्यादिना, तथा “कटुतिक्तकषायाणां विपाकः प्रायशः कटुः," For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy