SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः सूत्रस्थानम् । १८३ वारणाय ग्राह्य तिपदम्। रसनेन्द्रियग्राह्यजातेरसत्त्वादसम्भवात् तद्वारणाय वृत्तीतिपदम् । रसनेन्द्रियग्राह्यरसत्तिगुणवजातिमत्त्वाद, रूपादीनां रसवधारणाय गुणखावान्तरेति । मधुरादिषु प्रतिरसं तथातीन्द्रियरसे चाव्याप्तिवारणाय जातिमत्त्वमिति। प्रत्येकरसस्य जातिमत्त्वेऽपि मधुरखवत्तया ग्रहणदशायां जातिमत्त्वाग्रहेऽप्रसङ्गसम्भावात् । जातिमत्त्वन्तु वृत्तिनियामक सम्बन्धेनैव बोध्यम् । तेन शेयखादिना सम्बन्धेन नातिप्रसङ्ग इति बोध्यम्। नेदं साधु व्याख्यानम् । तन्मात्ररसोऽतीन्द्रियः साधारणभूत एवाव्यक्तो गुणखावान्तरसामान्यभूतजातिमत्त्वाभावादनेन लक्षणेनालक्षितः। एकखात् तस्य गुणवावान्तरसामान्याभावात्। न हि मधुरादिगतसामान्यमस्यास्ति, मधुरादयो हि रसप्रभेदा रसखसामान्यवन्त एष तु न रसप्रभेदः साधारणवात् । तस्माद्रसनेन्द्रियग्राह्यो यो मध रादिरसस्तत्तद वृत्तिगुणवावान्तरसामान्यभूतजातिने तन्मात्ररसे तस्मात् तन्मात्ररसो नैतल्लक्षणलक्षित इति अतीन्द्रियरसेप्रसङ्गसद्भाव एव, न तु निवारितः स्यात् । अस्माकं मतेनेदं तन्मात्ररसलक्षणमिति तुल्यत्वादिष्टं क्षितिस्तथेत्युक्त्या तस्य व्यावृत्तवख्यापनादस्य रसनार्थो रस इति लक्षणस्यालक्ष्यस्तन्मात्ररस इति ज्ञापितम्। तस्माद्रसनार्थों रस इत्यस्य लक्षणस्य रसनेन्द्रियग्राह्यत्तिगुणखावान्तरजातिमत्त्वं रसखमिति व्याख्यानमसाध । आकाशानुप्रवेशे वायुद्वि गुणस्तस्य तेजस्यनुप्रवेशे तेजस्त्रिगुणं तस्य रसतन्मात्रास्वपस्वनुप्रवेशे चतुरात्मिका आपस्तज्जलानुप्रवेशेन श्रूयते रसवती क्षितिरित्यतस्तन्मात्ररसव्यात्तिज्ञापनार्थमाह-क्षितिस्तथेति । 'अत्रेदं हृदयं कतिधापुरुषीये “महाभूतानि खं वायुरनिरापः क्षितिस्तथा। शब्दः स्पर्शश्च रूपश्च रसो गन्धश्च तद गुणाः। तेषामेकगुणः पूवौं गुणद्धिः परे प्रधानकारणभूताः। खादय इत्यनेनैव त्रित्वे लब्धे पुनस्त्रय इति वचनं तेषामेव व्यस्तसमस्तानामपि प्रत्ययत्वदर्शनार्थ, अत एव व्यस्तसमस्ताऽऽकाशादिसंसर्गात् भेदस्तु रसानां मधुरतरमधुरतमादिरेवन्तु रसभेदश्वोपपन्नः। विशेष चेति चकारादभिव्यक्तावप्याकाशादीनां निमित्तकारणत्व दर्शयति , वक्ष्यति हि ‘तास्त्वन्तरीक्षाद भ्रष्टा भ्रश्यमानाः पञ्चमहाभूतगुणसमन्विता जङ्गमस्थावराणां भूतानां मूत्तीरभिप्रीणयन्ति यासु षभिमूर्च्छन्ति रसाः" इति। अन्ये तु विशेष चेति चकारं खादयश्चेत्यत्र योजयन्ति, तेन चकारात् कालोऽपि विशेषेऽभिव्यक्तौ च कारणं लभ्यते, साक्षात् तु कालस्यावचनेन खादिभ्योऽप्यपकृष्ट कालस्य कारणत्व दर्श्यते । किंवा रसस्यापो द्रव्यं क्षितिस्तथेति च पूववदेव निवृतौ च, क्षितिरेव, For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy