________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१७८
चरक संहिता |
[ दोर्घञ्जीवितोयः
भूयश्चातो यथाद्रव्यं गुणकर्म्म प्रवक्ष्यते ॥ ३२ ॥ अरिष्टनाशकत्वात् । सर्व्वपुरुषाणामशक्यत्वेन रसायनादेर्जातारिष्टमसाध्यमेव इत्याहुः ।। ३१ ।।
गङ्गाधरः- नन्वेतावतैव वातादीनां स्वस्वगुणविपरीतगुणद्रव्यैः प्रशमोपदेशेन त्रिविधशिष्याणां न व्यवसायो भवति अतिसूक्ष्मतमत्वाद द्रव्यगुणानामित्याशङ्कयाह, भूयश्वत्यादि । - अतो वातादीनां स्वस्वगुणविपरीतगुणद्रव्यैः प्रशमोपदेशादनन्तरमन्नपानादिके यथाद्रव्यं द्रव्यमनतिक्रम्य गुणकर्म्म गुणाश्च कर्माणि च तत् भूयो बहुतमं च प्रवक्ष्यते प्रतिद्रव्यं विस्तरेण गुणक प्रवक्तव्यमित्यर्थः ।
नन्वेतावतैव वातादीनां स्वस्वगुणविपरीतगुणद्रव्यैः प्रशमोपदेशेन युक्तिव्यपाश्रयभेषज' किं समाप्यते इति शङ्कायां यथाद्रयं गुणकम्मपदेष्टव्यत्वे व्यवस्थिते द्रव्याणां गुणकर्माश्रयखेन कर्त्तखेन च सत्यपि प्राधान्ये गुणकर्म्मापेक्षया गुणकम्मभ्यामेव शक्तिरूपाभ्यां फलसाधनयोग्यत्वादादौ गुणकर्मणो गुणानां प्राधान्यादुपदेशे कर्त्तव्ये गुर्व्वादिगुणापेक्षया शीतादिगुणस्य वीर्य्यसंज्ञया प्राधान्येऽपि शीतादिवीर्य संज्ञकस्य गुणस्य प्रायेण प्रतिनियतरसत्वात् रसोपदेशो व्यवस्थीयते ।
Acharya Shri Kailassagarsuri Gyanmandir
5
“अत्र केचिदाचार्या ब्रवते द्रव्यं प्रधानम् कस्मात् ? व्यवस्थितत्वात् । इह खलु द्रव्यं व्यवस्थितं न रसादयो, यथा फले ये रसादयस्ते पक न सन्ति” । ननु चेत् व्यवस्थितत्वं स्वरूपेणावस्थानं तच्च कषायादिकल्पितस्त्वदशायां नास्तीति व्यभिचार इति चेत् तदा " द्रव्यं प्रधानं नित्यत्वात् । नित्यं हि द्रव्यमनित्या गुणाः यथा कल्कादिमविभागः, स एव सम्पन्नरसगन्धो व्यापन्नरसगन्धो वा भवति । ननु नित्यत्वमविनाशिवं स्वरूपानुच्छेदो वा, तथाखन्तु न कल्कादिखदशायामिति व्यभिचय्येते हेतुरिति चेन्न, द्रव्यं प्रधानं "स्वाजात्यावस्थानात् । यथा हि पार्थिवं द्रव्यमन्यभावं न गच्छत्येवं शेषाणीति ।" अतः स्वारम्भकद्रव्यजातीयत्वेनानुवृत्तत्वं स्वारम्भकद्रव्यजातीयत्वानपायत्वं वा स्वभावसंसिद्धलक्षण वा स्वाजात्यवस्थानमिति । ननु रिष्टे जाते किं भेषजमतीतकालक्रियमाणम् अपक्रान्ते सलिल इव सेतुबन्धः करिष्यतीति ; तस्मादसाध्यानां साधनं नोपदिश्यत इति साधु ॥ ३१ ॥
चक्रपाणिः - किमेतान्येव गुणकर्माणि उतापराज्यपीत्याह, भूयश्चेत्यादि । गुणानां कर्माणि गुणकर्माणि । यथाद्रव्यमिति यस्मिन् यस्मिन् द्रव्ये यद्यद्गुणकर्म्म तत् तत्तस्मिंस्तस्मिन् गुणकर्माणि वक्ष्यते । इति चक्रपाणिः ।
For Private and Personal Use Only