SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक संहिता | वायुः पित्तं कफश्वोक्तः शारीरो दोष संग्रहः । मानसः पुनरुद्दिष्टो रजश्च तम एव च ॥ [ दीर्घञ्जीवितीयः गुहां त्रिगुणसाम्यलक्षणां प्रकृतिं प्रविष्टौ द्वौ क्षेत्रज्ञजीवात्मानौ क्षेत्रज्ञमहान्तौ सुकु तस्य स्वस्वकृतस्य कर्म्मणः परमे परार्द्ध काले सर्वेषां प्राकृत प्रलयेऽस्मिन्नादित्ये नारायणे ब्रह्मणि लये नारायणस्याव्यक्तं लये सत्कर्म्मणः फलं सुखमात्रम् ऋतं सत्यं पिबन्तौ नित्यानन्दं पिवन्तौ छायातपाविव ब्रह्मविदो वदन्तीत्यर्थः । एतेनात्मनः प्रतिविम्वो जीव आत्मेति यदाहुस्तन्महत्तत्त्वातिरिक्तो न दृश्यते कश्चिद्भाव इति । नन्वेवम्भूतात्मन उपभोगं पश्यतीति द्रष्टा क्षेत्रज्ञः किमन्याच क्रिया या भूतात्मा करोति ता न पश्यति, न पश्यति चेत् साक्षी न भवतीत्यतो द्रष्टृत्वं विवृणोति । पश्यति हि क्रिया इति । चेतनेन स्वेन चेतितस्तु भूतात्मा यां यां क्रियां करोति ताः सर्व्वाः क्रिया यस्मात् पश्यति तस्मादात्मा क्षेत्रज्ञो द्रष्टा । तिसृष्ववस्थासु हि जागर्त्ति तस्मात् सुषुप्तावपि यदानन्दमुपभुङ्क्ते महता चेतसाऽव्यक्तात्मा तदुपभोगक्रियामप्येष पश्यतीति सव्र्व्वदर्शी । इत्थञ्चाव्यक्तस्थसमत्रिगुणम हदहङ्काराश्रयो मनोऽत्र मनःशब्देन गृह्यते । सूक्ष्मस्थूलभूताख्य भूतात्माश्रयः सर्व्व एव सङ्घातरूपो देहः शरीरशब्देनोच्यते । तत्र मनसि शरीरे चारोग्यानारोग्य' सुखदुःखमिति तत्त्वम् ॥ २८ ॥ गङ्गाधरः- अथ रोगारोग्ययोः संग्रहेण हेतुनाश्रयमनाश्रयञ्चोपदिश्य प्रकृतिभूतः शारीरो मानसश्च रोगो निद्दिश्यते । लक्षणतस्तूपदेक्ष्यते महाचतुष्पादे - sध्याये । वायुरित्यादि । - वायुः शरीरारम्भकेषु पञ्चसु भूतेषु यद द्वितीयं भूतं, तत्परिणाम विशेषः स एव । पित्तं तृतीयं भूतं, शरीरारम्भकतेजःप्रधानपञ्चभूतविकारात्मकं तेजः स्वरूपमनिसंशम् । कफश्चतुर्थं भूतमापः शरीरारम्भकसोमप्रधानपञ्चभूतविकारविशेषः । व्याधिप्रकरणाद्विपमखेन वात्रपां ग्रहणम् । For Private and Personal Use Only चक्रपाणिः सम्प्रति विकाराश्रयं तथा विकारस्य व्यवहितञ्च हेतुमभिधाय प्रत्यासन्न' दोषरूप हेतुमाह, वायुरित्यादि । अत्र प्रधानत्वादग्रे वायुरुक्तः, प्राधान्यञ्चाशुभूरिदारुणरोगकर्तृत्वात्, वचनं हि "आशुकारी मुहुश्वारी,” तथा “अशीतिं वातजान् विकारान् चत्वारिंशत् पित्तविकारानू, विंशतिञ्च कफजान्" । वक्ष्यति हि महारोगाध्याये "वातमनु पित्तं प्रधानं ,
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy