SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६० चरक-संहिता। दीर्घजीवितीयः मात्मनो लिङ्गानि ज्ञानेच्छादेषसुखदुःखानि भवन्ति । बुद्धयादिसमयोगात् सुखं बुद्धग्रादिविषमयोगाद दुःखमिति सत्वशरीराश्रये सुखदुःखे आरोग्यानारोग्ये पूर्वमभिहिते। यदि दुःखमपि बुद्धयादिविषमयोगैरात्मन एव जायते इत्यात्मगुण एव सुखश्चात्मगुण एव बुद्धप्रादेरिवोच्यते, तदा निविकारखमात्मनो नोपपद्यत इत्यत आह–“द्रष्टा पश्यति हि क्रियाः” इति। सुखदुःखाश्रयो भूतात्मा जीवात्माऽसौ ताभ्यां परः श्रेष्ठस्वव्यक्तमात्मा क्षेत्रज्ञः सत्त्वशरीराभ्याश्च परो भिन्नो निर्विकारः स हि सत्त्वभूतगुणेन्द्रियैश्च तन्ये कारणं नित्य , स हि द्रष्टा न क्रियाफलभोक्ता क्रिया हि पश्यति। यथोक्तमाथर्वणिकमण्डकोपनिषदि । “द्वा सुपर्णा सयुजा सखाया समानवृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्योऽभिचाकशीति । समानक्षे पुरुषो निमग्नोऽनीशया शोचति मुद्यमान । जुष्ट यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः।” इति श्लोकद्वयं व्याख्यायते यथा। द्वा द्वौ सुपर्णा सुपणौ सयुना सयुजी सखाया सखायौ एवम्भूतौ सन्तौ समानमविशेषितमेकं वृक्षमिवोच्छेदसामान्याच्छरीर वृक्षं परिषस्वजाते परिष्वक्तवन्तौ। अयं हि शरीरटक्ष ऊद्ध मूलोऽधःशाख एषोऽश्वत्थः सनातनः क्षेत्रसंशः सव्वप्राणिकम्मे फलाश्रयः। तं परिष्वक्तवन्तौ यो तयोद्व योमध्येऽन्य एकः प्रत्यगात्मा शरीरं वृक्षमाश्रितः पिप्पलं कर्मनिष्पन्न सुखदुःखलक्षण फलं खादु अनेकविचित्रवेदनास्वादनरूपं स्वादु अत्ति अश्नाति जागरिते वैश्वानरः स्थूल भुङ्क्ते स्वप्ने तेजसः प्रविविक्तं भुङ्क्ते सुषुप्तौ प्राज्ञो जीवात्मानन्दमात्रं भुङ्क्ते तेषां भोगमन्य एकः क्षेत्रज्ञः पश्यति । यो भूतात्मनोः प्रेरयिता क्रियासु ताभ्यां क्रियमाणक्रियां पश्यन् साक्षी स तु पिप्पलं नाश्नन्नभिचाकशीति पश्यत्येव। तत्रैवं सति समाने वृक्षे यथोक्त शरीरे पुरुषो भोक्तत्रावस्थः क्षेत्रज्ञ. अविद्याकामकर्मफलभाराकान्तोऽलावरिव साद्रो जले निमग्नोऽयमेवाहममुष्य पुत्तोऽस्य नप्ता कृशः स्थूलो गुणवान् निगु णः सुखी दुःखीत्येवं प्रत्ययः। कचित् समर्थोऽयं पुत्तो मम नष्टो मृता च भार्या किं मे जीवितेनेत्येवं दीनभावेन मुहमानोऽनीशतया शोचति सन्तप्यते। मुह्यमानोऽनेकैरनर्थप्रकारैरविवेकतया चिन्तामापन्नः । स एवम्भूतस्तिय॑मनुष्यादियोनिषु जराजर्जरीभावमापन्नः कदाचिदनेकजन्मसु शुद्धधर्मसञ्चयनिमित्त केनचित परमकारुणिकेन दशितयोगमार्गोऽहिंसासत्यव्रतब्रह्मचर्य्यसळत्यागशमदमादिसम्पन्नः समाहितात्मा For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy