SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः १५७ सूत्रस्थानम् । पुरुष खल्वात्माऽविदयावानुच्यते स्वसंयुक्तमनःक्रियोपचरित आत्मा क्रियावान् स्वप्रयत्नेन। तया खविद्यया यदा व्यवसायार्थ प्रवत्तेते तदा स उद्रिक्तोऽहङ्कारः परिणमन्मनसि बुद्धिरूपेण जायते। सा बुद्धिस्त्रिधा धीधृतिस्मृतिभेदात्। त्रिविधा च त्रिधा सात्त्विकी राजसी तामसीति, तया बुद्धधात्मोपचर्यते। तेनात्मा बुद्धिमानुच्यते इत्यात्मलिङ्ग बुद्धिरहङ्कारोपादाना। तया गर्च करोति गोऽभिमानोऽहङ्कार इत्येकोऽर्थः । यदा सात्त्विक्या तया व्यवस्यति तदा सा व्यवसायात्मिका बुद्धिः समयोगेनोच्यते, तदा च स्वर्गादिपारलौकिकधनबान्धवादिजैहिकसुखजनकं वैधं कर्माचरति, यच्च यथाभूतं कर्तव्यं तच्च तथैवाचरति। यदा राजस्या व्यवस्यति तदा सा व्यवसायात्मिका बुद्धिविषमयोगेनोच्यते। विषमयोगस्त्रिधा मिथ्यायोगायोगातियोगाः । तैस्तु वैधकांण्याचरति अयथावत् पारत्रिकाण्यैहिकानि च । तामस्या च तया यदा व्यवस्यति तदा सा व्यवसायात्मिका बुद्धि विषमयोगेन। स च त्रिधा पूर्ववत् । तैश्च वैधानि काप्याचरत्ययथावत् पारत्रिकाण्यहिकानि च । एषा हि बुद्धिस्त्रिया धीधृतिस्मृतिभेदात् चतुर्विधयोगेनानित्यसुखदुःखहेतुः । यदा सात्त्विक्शऽनया बुद्धया नानाविधपुष्यकर्माणि कृतानि परिणतानि भवन्ति फलितु तदा येन कर्मणा मोक्षोपायेन फलन्ति तदा खलु विद्यारूपा परिणमन्ती क्रमेण तामसी राजसी सात्त्विकी शुद्धसात्त्विकी च भवति । तया मानसदोपरजस्तमोनाशात् शुद्धसत्त्वात्मकं मनो भवति ततो मुक्तियथोक्तरूपेण। एवमनया बुद्धया भवत इच्छापो मनसि ताभ्यां चोपचर्यत आत्मा तत इच्छावान् द्वेषवानिति लक्ष्यते। इच्छाद्वषाभ्यां मनसि प्रवर्तते निवर्तते वा कर्माणि कर्तु मिति प्रवृत्तिनिवृत्तिरूपः प्रयत्नो मनसि जात उपचरत्यात्मानमित्यनित्यप्रयत्नवानात्मेति लक्ष्यते। इत्येवमोपचारिकबुद्धीच्छाव पप्रयत्नवानात्मा यदा दम्पतीभ्यां जायमानो गर्भः पत्या भार्यायां जन्यते। पत्यु र्यायां च जन्यत इत्येवं लोके व्यवहारात्तभयोः पुत्रोऽपि पितरि जीवति प्रधाने च पितुः पुत्रतया परिचीयते कदाचिन्मातुः पुत्रतयापीति । बुद्धप्रादयस्तद्वदात्मगुणाः कैश्चिदुच्यन्ते कैश्चिन्मनोगुणाः, किन्तु यथा गर्भो मातरि वर्तते तथा मनसि बुद्धग्रादयो वर्तन्ते। नैते बुद्धग्रादयो गुणा मनसो लिङ्गानि चैतन्याभावात् चतन्यात्त्वात्मनो लिङ्गानि , भवन्ति । वक्ष्यते . चास्मिंस्तन्त्रे। “अचेतन क्रियावच्च चेतश्चेतयिता परः । युक्तस्य मनसा तस्य निद्दिश्यन्ते विभोः क्रियाः॥ चेतनावान् यतश्चात्मा For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy