SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४४ चरक-संहिता। [ दीर्घजीवितीयः ... कस्मात् ? इन्द्रियान्तरविकारा। अम्लरसद्रव्यालोडने तद द्रव्यदर्शनादिना कस्यचिदम्लमशितवतस्तस्मरणेन मुखोदकस्राव इत्येकेन्द्रियग्रहणेऽपरेन्द्रियविकारादनुमीयते चास्त्यात्मा देहादिसङ्घातव्यतिरिक्त इति न ह्यन्यदृष्टमन्यः स्मरति। ... तत्राहुर्नास्तिकाः। न स्मृतेः स्मर्त्तव्यविषयखात् । अम्लदर्शने विन्द्रियान्तरविकारो यत्तत्रात्मा न स्मरति । कस्मात् ? स्मृतेः स्मत्त व्यविषयत्वात् । स्मृतिहि निमित्तादुत्पदाते, तस्याः स्मृतेविषयः स्मर्तव्यो भावः। तदम्लादिभावकृत इन्द्रियान्तरविकारो नात्मकृत इति।। . तत्राह-तदात्तगुणसद्भावादप्रतिषेधः। तस्याः स्मृतेरात्मगुणले न सद्भावादाला नास्तीति प्रतिषेधो न भवति। तथा चान्यदृष्टं नान्यः स्परतीत्युपपद्यते। इन्द्रियचैतन्येऽपि नानाकत्ते काणां रूपादिग्रहणानां यदिन्द्रियं यार्थं गृह्णाति तदर्थस्मरणश्च तस्यैव भवितुमह ति न चान्यस्य, तस्मादम्लदर्शनघ्राणादितो रसनस्रावो नोपपद्यत इति देहादिसङ्घातव्यतिरिक्त आत्मास्तीति । तत्राहुर्नास्तिकाः। अम्लरसप्रभावाद दृष्ट्वाम्लं मुखस्रावो भवति न च तिक्तद्रव्यं दृष्ट्वा। तस्मादात्मा स्मर्त्ता नास्तीति । तत्राह-अपरिसङ्ख्यानाच स्मृतिविषयस्य । न स्मृतेः स्मत्तव्यविषयवादिति यदुक्त स च प्रतिषेधो न भवति । कस्मात् ? स्मृतिविषयस्यापरिसङ्ख्यानात् । इमे हि खलु स्मृतिविषयाः। स्मृतिश्च यम, अगृह्यमाणेऽर्थेऽमुमर्थमहमशासिषमिति । एतस्याः स्मृतेर्शातृशानविशिष्टः पूवज्ञातोऽयों विषयः। न बर्थमात्रम् । अहममुमर्थ ज्ञातवान्, असावों मया ज्ञातः। ज्ञातम् । अस्मिन्नर्थे मम ज्ञानमभूदिति चतुविधं वाक्य स्मृतिविषयज्ञापकम् समानार्थं ; सर्वत्रैव शाता शानं शेयश्चति वाक्य भेदमात्रम् । या च प्रत्यक्षे वस्तुनि स्मृतिस्तया स्मृत्या त्रीणि ज्ञानान्येकस्मिन्नर्थे प्रतिप्तन्धीयन्ते समानकते काणि, न नानाकत काणि, नाकत्ते काणि । एककते काणि यथा अमुमर्थमहमद्राक्षं यमेवेदानी पश्यामीति। अद्राक्षमिति दर्शनं दर्शनमा च। न ह्यसंविदितेऽर्थेऽद्राक्षमिति दर्शनमात्रे स्यात। ते एते द्वे ज्ञाने। यमेवेदानी पश्यामि तत तु तृतीय शानमिति खेकोऽर्थस्त्रिभिनियुज्यते न चाकत्ते को न नानाकत्ते कः स्यादिति। तथा चककर्त कः सोऽयं स्मृतिविषयोऽपरिसङ्ख्यायते। नास्त्यात्मा स्मृतेः स्मत्तेब्यविषयलादिति, स्मर्त्तव्याथैः प्रतिषिध्यते यत तन्न स्मृतिमात्र स्मर्त्तव्यमात्र For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy