SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४१ १म अध्यायः] सूत्रस्थानम् । वृद्धिहासौ तदुपाहितबुद्धेव द्धिहासावुच्येते न तु फलतः। तद वद्धिहासवद, बुद्धग्रादित इन्द्रियार्थसन्निकर्पोत्पन्नादिबुद्धयादिगुणा जायन्ते तेन शरीरस्य तस्य नित्यबुद्धादेव द्धिहासाभावान्निचिकारवमुक्तमिति । अथैवं वास्तवविकाराभावादात्मनो निर्विकारलं, सखशरीरसंयोगात्तु या विशेषोपलब्धिः प्रतिपाणि स च चेद्विकार आत्मन इष्यते, इष्यताम, अवास्तवविकारखान्नास्माभिस्तद्विकार इष्यते। नन्वव्यक्तात् पुरुषः पर इति श्रुतेरव्यक्तस्यात्मनः प्रकृतेः पुरुषस्य च वैधयमुक्त, प्रकृतिः प्रसवम्मेिणी वहिःस्थधर्मिणी चाचेतना च का चेति, पुरुषस्वप्रसवधर्मा मध्यस्थधर्मा बहुश्चेतनश्चति ततोऽव्यक्तात् पुरुषः पर इत्युक्त मिति प्रसवधर्माखादव्यक्तस्यात्मनः सविकारखमस्त्येव यद,गुणवैषम्यात्मकस्तु महानासीदिति चेन्न। सुश्रुते हि प्रकृतिपुरुषयोये साधर्म्यवैधम्ये उक्ते, तद यथा-"उभावप्यनादी उभावप्यनन्तावुभावप्यलिङ्गावुभावपि नित्यावुभावप्यपरावुभौ च सर्वगताविति” साधर्मत्रम् । “एका तु प्रकृतिरचेतना त्रिगुणा वीजधर्मिणी प्रसवधम्मिण्यमध्यस्थधर्मिणी चति ।” वहवस्तु पुरुषाश्चेतनावन्तो निर्गुणा अवीजर्मिणो मध्यस्थधर्मिणश्चेति” वैधम्मग्रम। “तत्र कारणानुरूपं कार्यमिति कृखा सर्व एवैते विशेषाः सत्वरजस्तमोमया भवन्ति तद गुणवात्तन्मयखाच तद गुणा एव पुरुषा भवन्तीत्येके भाषन्ते।" इति सत्त्वरजस्तमोगुणत्रयमात्रात्मिकायाः प्रकृतेः प्रसवधर्मववचनादव्यक्त नामात्मा तु समसत्त्वरजस्तमोमय्या प्रकृत्यैवोपाहितः क्षेत्रज्ञः पुरुष एवैकः चित्सम्पसादरूपपुरुषस्य न प्रसवधर्मवं, ततस्थायाः समसत्वरजस्तमोगुणमात्रमय्याः प्रकृतेः प्रसवधर्माबादच्यक्तस्थतत्रिगुणवैरम्यान्महतोऽभिव्यक्तिवचनादादिसृष्टौ सिमृक्षोरव्यक्तस्य तस्याचिन्त्यमहिम्नः सिद्धरिति। उक्त हि सुश्रुते सव्र्वभूतचिन्ताशारीरे। “सर्वभूतानां कारणमकारणं सत्त्वरजस्तमोलक्षणमष्टरूपमखिलस्य जगतः सम्भवहेतुरव्यक्तं नाम । तदेकं बहूनां क्षेत्रज्ञानामधिष्ठानं समुद्र इवोदकानां भावानाम् ।” तस्मात् क्षेत्रवाधिष्ठितातल्लक्षण एव महानुत्पद्यते इति। स्थूलशरीरारम्भे तु न खलु तथाविधवैषम्यमव्यक्तस्यास्मनोऽस्ति। महदादीनां सूक्ष्मसूक्ष्ममात्रासंयोगादेव सूक्ष्मदहिपुरुषसर्गस्य मनुनोक्तखात्। निर्विकारत्वमव्यक्तस्यात्मनः परमस्य । अव्यक्त चेत् अनुरागलक्षणो विकारस्तथा दुःखोपलब्धौ च द्वषलक्षणविकारः, तत् कथं सुखदुःखोपलब्धावयम् आत्मा निर्विकार इत्याह-द्रष्टा पश्यति हि नियाः। द्रष्टा साक्षी, तेन यतिरथा पर.शास्तः For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy