SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चरक संहिता । १३८ [ दोघंजवितीयः 1 इति तदिन्द्रियस्थ वेतनागुणेनोपचर्थ्य गण तदिन्द्रिपचेतनावानप्यात्मोच्यते, तदा sataraत्येव सगुण आत्मोच्यते इत्येव यावत् पूर्वोक्तप्रकारेण धृत्यादय इच्छादयश्च गुणा इंन्द्रियस्था बोध्या मनःस्थाः प्रत्यगात्मस्थाच । इच्छादयः प्रयत्नान्ताश्च तनादयोऽहङ्कारान्ताश्च गुणा आत्मना जनिता मनसि तथेन्द्रियेषु च प्रत्यगात्मनि चोपचाराद्रथादिषु क्रियावर साक्षाद्वर्त्तन्ते । माण्डूक्येऽप्युक्तम् । “तत्र जागरितस्थानो वहिः प्रशः स्वप्नस्थानोऽन्तः प्रज्ञः सुषुप्तिस्थानः प्रज्ञानघनः प्राज्ञः, स च त्रिपादात्मा राशिपुरुषावस्थायामभूत् महत्तत्त्वरूपप्रशाश्रयत्वात् पाशः पञ्चतन्मात्रादिमूक्ष्मभूतेन्द्रियाश्रयत्वात् तैजसः स्थूलभूतेन्द्रियाश्रयत्वाद वैश्वानर इति त्रिपादसमुदायस्थत्वेन बुद्धप्रादीनामव्यक्तात्मनः शरीराश्रितत्व' व्याख्यातं भवति ।" नन्वेवश्च त् तहि किं जागरिताद्यवस्थात्रयं मनस एव न खात्मन इति चेन्न सर्वदैव ह्यात्मा जागर्त्ति राशिपुरुवावस्थायां यदा सर्व्वाणि जाग्रति तदा जागरणाकस्था, यदा वहिरिन्द्रियाणि मनसि लीयन्ते तदा स्वभावस्था मनः प्राणाश्च जाति, यदा तानि सर्व्वाणि प्रज्ञाने महति लीयन्ते तामसराजसप्रज्ञानञ्चात्मनि सात्त्विके महति तदा सुषुप्तावस्थेति; आत्मन एवावस्थात्रयमिति । अत एव सुषुप्रवस्थायामपि चेतोमुख एवेति निद्दिष्टः कचिदप्यवस्थायामात्मनः सत्त्वसंयोगाभावो न भवति भवति च निर्व्वाणभितरस्य तुय्यवस्थायां तस्मात् नित्यानुबन्धमनोबन्धमोक्ष एव मोक्षः । सुषुप्तौ च प्राशोऽभिहितो न ज्ञानसामान्याभावेन क्षित्यादिराजसमहदन्तसर्व्वतत्त्वानां सात्त्विके महति विलीनत्वे व्यक्ताख्य आत्मा सात्मिक महत्तत्त्वरूपचित्तवान परमात्मनि शिवे रसे सम्प्रतितिष्ठते, रसं ह्येवायं लबध्वानन्दीभवतीत्यानन्दमयः स्यात् । न यस्य ये समवायिकारणी भूतद्रव्याश्रितगुणारव्यगुणास्ते तस्य गुणा उच्यन्ते ते च शरीरे च न्द्रियेषु च पञ्च नूतानां समवायिकारणत्वं तद् गुणकम् - णाश्च शरीरेन्द्रियगुणकर्मसु समवायिकारणत्वमिति भोतिकगुणाः शरोरेन्द्रियेषु वत्तन्ते न मनसि न चात्मनि । मनसस्तु सत्त्वप्रधान त्रिगुणाः शारीरमनोगुणस्य समवायिकारणानि शारीरस्थूलमनसि वत्तन्ते न तु देहे चालनि च तत् कथमात्मजा बुद्धीच्छादयो गुणा इन्द्रियेषु शरीरे च मनसि च वर्त्तन्ते इति चदत्र महे | - Acharya Shri Kailassagarsuri Gyanmandir व्यम्यते वा । अत एव सत्त्वादीनां ज्ञानकरणानां सव्वंत्रासम्भवात् सर्व्वगतेऽप्यात्मनि न सम्यन्त्र प्रदेशे ज्ञानं स्यात् । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy