SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११६ चरक-संहिता। [दीर्घजीवितीयः इत्युक्तं कारणं कायं धातुसाम्यमिहोच्यते। धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम् ॥२५॥ अद्रव्यवत्त्वान्नित्यवमुक्तम्। संयोगाद्धि खल्वनेकद्रव्यमेकीभूय कार्यद्रव्यं स्यात् तस्मादद्रव्यवद. यावत् कार्य नित्यम् । अद्रध्याणां ह्य पादानानां समवायो नित्यो भूम्यादीनां गुणः समवाय इव। कारणाभावात् कार्याभावः ॥ कार्याणामनेकद्रव्यारब्धानामनेकगुणारब्धानामनेककारब्धानाच द्रव्यगुणकर्मणां समवायिकारणसमवायाभावादभावः। नैषामुपादानानां कार्य समवायो नित्यः। संयोगाद, द्रव्याणां द्रव्यगुणकर्मसमवायः स्यादिति। न कार्याभावात् कारणाभावः। काय्याणां द्रव्यगुणकम्मणामभावान्न तदुपादानकारणाभावः स्यात् । कार्ग हि नष्टमुपादानरूपमापद्यत । कारणलयो हि नाशः। सर्च यथास्थानं विस्तरेण व्याख्यास्यते इति ॥२४॥ गङ्गाधरः-अथैतदुपसंहरति, इत्युक्तं कारण कार्यमिति। इति सर्वदा सर्वभावाणामित्यादिना कर्म नान्यदपेक्षते इत्यन्तेन सामान्यं नाम कारणम् । तस्य कार्य सर्वभावाणां वृद्धिरेकखश्च। विशेषो नाम कारणम् । तस्य कार्य सव्वभावाणां हासः पृथक्त्वञ्च इयम्। समवायः कारणम्। तस्य कार्य सर्वभावाणां मेलनम्। द्रव्यं कारणम्। तस्य कार्य गुणकर्माश्रयसजातीयद्रव्यं मूर्त्यादि। गुणः कारणम् । तस्य कार्य निश्चेष्टसजातीयगुणविशेषः । कर्म च कारणम् । तस्य कार्य सजातीयविजातीयकर्म संयोगविभागी चेति सर्वमुक्तम्। ___ अर्थतदायु-दस्याधिकरण पुरुषश्च कारणमुक्त्वा तत्र कार्यमाहधातुसाम्यमिहोच्यते। धातुसाम्यक्रिया चोक्ता तत्रस्यास्य प्रयोजनमिति । इह सत्त्वादित्रयात्मके पुरुषे धातुसाम्यं समधातुरक्षा तत्रस्यास्यायुर्वेदस्य प्रयोजनमुच्यते। न केवलं समधातुरक्षा प्रयोजन धातुसाम्यक्रिया चास्य तन्त्रस्य प्रयोजनमुक्ता। विषमधातौ पुरुष धातुसाम्यकरणं धातुसाम्यक्रिया। चक्रपाणिः-प्रकरणमुपसंहरति, इतीत्यादि।-इति समाप्ती, तेनैतावदेव सामान्यादिषट्कं सवस्य कार्य्यजातस्य कारणं, न चान्यत् कारणमस्ति। कारणं सामान्येनाभिधायायुर्वेदोपयुक्त कार्यमाह, कार्यमित्यादि।-धातुसाम्यमारोग्य, वक्ष्यति हि "विकारो धातुवैषम्य साम्य प्रकृतिरुच्यते। सुखसंज्ञकमारोग्यम्" इत्यादि। इहेत्यायुर्वेदे, तेनान्यखान्यदपि घटादि For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy