SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११० चरक-संहिता। [ दीर्घजीवितीयः गुणशौषिर्यादिकृत्कम्पवान् जायते। इति जायमानक्रियागुणवतः समवायि कारणमनभिवयक्तशब्दगुणमाकाशम । एवं कालाज्जातः कालो जायमानक्रियागुणवान् जायते। तस्य समवायिकारण कालः। एवमात्मनो जायमाने प्रत्यगात्मनि प्रतिनिहत्ती क्रिये इच्छा पादयो जायन्ते । तस्य प्रत्यगात्मनः समवायिकारणमात्मा निक्रियः। एवं दिशो जायमानासु दिक्षु तदुपाहितदेशेषु गर्भशरीरावयवबलवर्णादिवाग्वीर्यविशेषहेतवो गुणा जायन्ते तासां समवायिकारणमेका दिक् लोके द्रव्यं प्राच्यादयः शारीरद्रवयम्। एवं पूर्वपूर्वभूतानुप्रवेशे यात्मकादिषु वाय्वादिषु स्पर्शविशेषादयो गुणा जायन्ते क्रियाः सर्वतोगमनादय इति, तस्य तस्य क्रियागुणवतः समवायिकारण द्वित्रवादिभूतं द्रवयम् । क्रियागुणवदिति प्रथमान्त चेन्मन्यते तदापि समवायिकारण काय्य खेन परिणमत् क्रियागुणवत् जायमानक्रियागुणवद. भवतीति लक्षणसमन्वयः। जनकहेतुक्याटत्तार्थं समवायीति। द्रव्याणां खादीनां मनोदिशोश्च समवायिकारणमहङ्कारस्य खादिरूपेण जायमानले जायमानगुणवत्त्वेन जायमानत्वेऽपि जायमानक्रियावत्त्वेन परिणामाभावान्न द्रव्यखम। तथा कालात्मनोश्च समवायिकारण ब्याखेायम । गुणवत् समवायिकारणमिति वचने रूपादिभ्यः प्रकृतिगुणेभ्यो जायमानेषु लोहितश्वेतकृष्णादिषु पृथक्त गुणो जायते। पुनः पाश्चभौतिके तल्लोहितश्वेतकृष्णमेलने समवायादेकख पीतवादिकं कार्य जायते । तर गुणवत समवायिकारण प्रकृतिरूपादिकमिति तेषु द्रव्यवप्रसङ्गः। कर्म तु न कर्म गुणाश्रय इति न द्रव्यं तथा सामान्यविशेषसमवाया इति समं चरककणादयोरिति । क्रमिकखाद, गुणलक्षणमाह, “समवायी तु निश्चष्टः कारण गुणः” । कारणपदेन कार्योपस्थितौ यस्य कार्यास्यारम्भे यो भावो निश्चेष्टः क्रियाहीन एव सन्नन्यक्रियया परिणमन् कार्यवमापद्यते स तस्य कार्य्यस्य गुणो नाम कारणमुच्यते क्रियाहीनखात् कत्त खाभावादप्राधान्यात्। निश्चेष्ट इत्यनेन खादीनां नवानां व्यावृत्तिः। समवायीत्युक्त्या कम्मेणां द्रव्याश्रितानां द्रव्याश्रितगुणपरिणामहेतुखेन निश्चेष्टत्वेन च न गुणखम् । तस्मिन् कार्ये गुणे समवायिखाभावात् । विजातीयगुणानाञ्च विजातीयकायेगुणे समवायिखाभावाच न विजातीये कार्ये गुणवमिति। प्रमादिनस्तु वैशेषिके कणादोक्त गुणलक्षण द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमन्यापेक्षो * गुण * अनपेक्ष इति क्वचित् पाठः। For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy