SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०८ चरक-संहिता। [दीर्घजीवितीयःशब्दश्लक्ष्णादय इवाकाशस्यात्मनः कालस्य दिशां वायुतेजोऽम्भूनभसाञ्च जायमानानामभिव्यक्तानि जातान्येव कार्यारम्भे तु सहकारिकारणान्तरयोगेऽभिव्यज्यन्ते। न हि निष्क्रियाणि तानि जातानि। तत्र वाय्वादिषु पूर्वपूर्वभूतानुप्रवेशाद. यात्मकादिषु वाय्वादिषु सर्वतोगमनोद्धं ज्वलनाधोगमनमन्दाधोगमनान्यभिव्यज्यन्ते मनसोऽनवस्थितगतिः। पुनरासां खाद्यात्ममनःकालदिशां देवनरादिचेतनाचेतनकार्यारम्भे परस्परं भूयोभूयः संयोगविभागाभ्यां परिणामेन कार्यरूप आकाशे माई वशोषिर्यलाघवकराणि कर्माणाभिव्यज्यन्ते तदारम्भकादाकाशादेव। एवं कालस्य परिणामेन प्रत्यग्रभावादिना परिणामकराणि कर्माणाभिव्यज्यन्ते। दिशाञ्च तदुपाहितदेशाधिकरणे गर्भशरीराद्यवयवबलवणेप्रकृतिसत्त्वसात्म्यवागवीर्यादिविशेषकराणि कर्माणाभिव्यज्यन्ते। आत्मनश्च मनःप्रेरणादिकानि कर्माणि अभिव्यज्यन्ते तानि कार्यरूपानाकाशकालदिगात्मन आश्रयन्तीति, तत्र आश्रितानि कर्माणि। तस्माद, यत्र कार्ये काणि गुणाश्च जायमाना आश्रितास्तत्समवायि यत्कारण' तद द्रव्यं खादिनवकमेव न खधिकम् । आत्मनस्तु कार्यः प्रत्यगात्मा सक्रियः। वक्ष्यते च शारीरे-“निष्क्रियस्य क्रिया तस्य भगवन् विद्यते कथम्” इति प्रश्ने। “अचेतनं क्रियावच्च चेतश्चेतयिता परः। युक्तस्य मनसा तस्य निद्दिश्यन्ते विभोः क्रियाः॥” इति । ___ आत्मकालयोरारम्भकाणां कार्ये चात्मनि काले जायमाने कर्माणि गुणाश्च नाभिव्यज्यन्ते मनोदिगाकाशवायुतेजोऽम्बुभूमीनामारम्भकस्याहङ्कारस्य कार्येषु तेषु मनोदिगाकाशादिषु जायमानेषु च कम्माणि नाभिव्यज्यन्ते स्पर्शादयश्च गुणा वाय्वादिष्वभिव्यज्यन्ते इति । जायमानगुणाश्रयाणां वाय्वादीनां कार्याणां गुणाश्रयत्वेऽपि कश्रियवाभावादेषां नवानां समवायिकारणानि न द्रव्याणि भवन्त्यहङ्कारादीनि। यत्र कारणे कम्मगुणा आश्रितास्तत् कारण या समवैति तद द्रव्यं प्रागेव व्याखाातम्। ये तु खादीनि नवैव द्रव्याणि प्रागुत्पत्तावनभिव्यक्तक्रियाणि जातानीत्येवं न विदन्ति पूर्वपूर्वभूतानुप्रवेशाद, ग्रात्मकादीनि वावादीनि चखारि सक्रियाणि कार्यद्रव्याणि विषयसंज्ञकानि प्रकृतिभूतद्रव्याणि विदन्तो नैतद द्रव्यलक्षणेन लक्षयितु प्रभवन्ति व्याखवान्ति च बहुप्रकारेणेति । अर्थतदभिप्रायेणैव कणादनाप्युक्तं वशेषिके । प्रकृतिभूतानि पृथिव्यादीनि नव द्रव्याणि, प्रकृतिभूताः सप्तदशैव गुणाः, पञ्च कम्माणि। तद यथा-पृथिव्याप For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy