________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। अर्थदशमहामूलीयः तत्त्वज्ञानप्रकाशार्थमहङ्कारमनाश्रिताः । स्वल्पाधाराज्ञमुखरान् मर्षयेन्न विवादिनः ॥ ३१ ॥ परो भूतेष्वनुक्रोशस्तत्तज्ञानपरा दया। येषां तेषामसद्वाद-निग्रह निरता मतिः ॥ असत्यक्षाः क्षणित्वाद्धि दम्भपारुष्यसाधनाः । भवन्त्यनाताः स्वे तन्ने प्रायः परिविकल्पनाः * ॥ तान् कालदेशसदृशान् । वज्जयेच्छास्त्रदूषकान् ।
सेवेत समभिज्ञान-ज्ञानपूर्वान् भिषकतमान् ॥ ३२ ॥ एव ये ज्ञानप्रकाशार्थमहङ्कारमनाश्रितास्ते सद्वृत्तवदिति, तैः सह न विगृह्णीयात् । स्वल्पाधारा अल्पश्रुता अज्ञा मुखराश्च ये विवादिनस्तान् न मषयेन क्षमेत ॥३१॥
गङ्गाधरः-पर इत्यादि । येषां भूतेषु प्राणिपु परः श्रेष्ठोऽनुक्रोशः करुणा सा दया च तत्त्वज्ञानपरा तत्त्वज्ञाने तात्पर्यवती न तु तत्त्वज्ञानाहतेऽन्यभावे दया। तेषां सत्तानामसद्वादस्य निग्रहे निवृत्ती मतिबुद्धिः निरता निश्चयेन रता इति । कस्मादित्यत आह-असदित्यादि। हि यस्मादसत्पक्षा जनाः क्षणिखात् एकं पक्षमाश्रित्य वदन्तः परेण प्रत्युक्ताः पुनरपरं पक्षमाश्रयन्तीत्येवं क्षणिसाद दम्भं साधयन्ति पारुप्वं वदन्तः साधयन्ति, प्रायः स्व तन्त्र स्वाधीत तन्त्रे परि विकल्पनाः परि सव्वतोभावेन विशेषेण श्लाघन्ते तेऽनाप्ताश्च भवन्ति तान् कालदेशसदृशान् यथाकालं यथादेशं शास्त्रदूपकान् वज्जयत्। ये भिषक्तमाः समविज्ञानज्ञानपूस्तिान् सेवेतति ॥३२ ।।
कश्चिद व्रते, तथाबुद्धिरपि संजल्पे ; विगृह्णीयात् विगृह्य संभाषां कुय्योत ; इतरागसवृतान् । स्वल्पाधाराः स्वल्पश्रुताः, न मर्पयेदिति नोपेक्षेत ॥ ३१॥
चक्रपाणि:--अज्ञवैद्यसंवादप्रतिषेधमाह-परो भूतेण्वित्यादि। निरता इति तत्परा। अज्ञग्रफलमाह-असत्पक्षेत्यादि। असत्पक्षादिसाधनं येषां ते तथा, असत्पक्षोऽनागमपक्षसिद्धः
* परविकत्थकाः इति पाठान्तरम् ।
- कालपाशसदृशान् इति वा पाठः। । प्रशमज्ञानविज्ञान-पूर्णाः खेच्या भिषक्तमाः ॥ इत्यधिकः पाः कचित् ।
For Private and Personal Use Only