SearchBrowseAboutContactDonate
Page Preview
Page 1184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०श अध्यायः सूत्रस्थानम् । ११७३ स्थानां धम्मप्रकाशिनां* वा मातृपितृभ्रातृबन्धुगुरुजनस्य वा विकारप्रशमने यः प्रयत्नवान् भवति। यच्चायुर्वेदोक्तमध्यायमनुध्यायति वेदयत्यनुविधीयते वा सोऽस्य परो धर्मः। या पुनरीश्वराणां वसुमतां वा सकाशात् सुखोपहारनिमित्ता भवत्यर्थानामवाप्तिरात्मरक्षणञ्च+, या च स्वपरिगृहीतानां प्राणिनामातुर्यादात्मरक्षा+ सोऽस्यार्थः। यत् पुनरस्य च विद्वग्रहणं यशःशरण्यत्वञ्च, या च सम्मानशुश्रूषा यच्चेष्टानां च मनुना-अम्बष्ठानां चिकित्सितमिति)। अथ कथमायुर्वेदाध्ययनेन धर्मार्थकामपरिग्रहो भवतीति अत उच्यते--तत्रत्यादि। अध्यात्मविदां पुरुषाणां तथा धर्म पथस्थानां धार्मिकाणां तथा धर्म प्रकाशिनां वा पुरुषाणां मात्रादिगुरुजनस्य वा विकारप्रशमने यत् प्रयत्नवान् भवति भिषक् सोऽस्य भिषज आयुर्वेदाध्ययनस्य फलं परो धर्म आयुवेदोक्त क्रियाकरणानिष्पद्यते । यच्चायु. वर्वेदस्याध्यायमनुध्यायति वेदयति परान् ज्ञापयति अनुविधीयते तत्तदध्यायः स्यानुरूपेण विधानं रचनाकरणं वा सोऽप्यस्यायुवेदाध्ययनस्य परो धर्मः । अथ अर्थपरिग्रहमाह-या पुनरित्यादि। ईश्वराणां राश वसुमतां धनान्यानां कृतचिकित्सानां सकाशात् या बर्थानामव्याप्तिः सुखोपभोगार्थ भवति, सोऽस्यायुर्वेदाध्ययनस्यार्थः फलम् । एवमात्मरक्षणश्च चिकित्सया यत् सोऽप्यर्थः। तथा स्वपरिगृहीतानां स्वेन प्रतिपालितानां प्राणिनामातुर्याद्रोगादात्मनो या च रक्षा सोऽप्यस्यार्थः फलमिति । अथ कामं दर्शआरक्षणमात्मादिरक्षणम्, स्वपरिगृहीतानामिति भृत्यादीनाम्, विद्वदग्रहणमेव यशः, विद्वदुपादेयताजन्यं यश इत्यर्थः, इष्टानामिति वनितादीनाम् ॥ १६ ॥ * धर्मप्रकाशानामिति पाठान्तरम् । # आरक्षणमिति वा पाठः। * आत्मरक्षेत्यत्र आरक्षेति क्वचित् पाठः । $ श्रीमद्गङ्गाधरस्य स्वीयहस्तलिखितादर्शपुस्तके "स्वोढ़ायाम्" इत्यादि--"अम्बष्टानां चिकित्सितम्” इत्यन्तं स्थानं केनापि हरितालेन प्रच्छाद्य अस्पाक्षरेण तत्रैका अभिनवटीका विरचिता, मुद्रितपुस्तके च तथैव दृश्यते। अतोऽस्माभिरपि अनन्यगतिकैः सैव टीका मुद्राङ्किता। परन्तु अष्टमाध्यायोक्तगङ्गाधरवचनेन एतत्स्थानस्थवचनस्य परस्परविरोधात् एषा टीका नैव सङ्गच्छते। For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy