SearchBrowseAboutContactDonate
Page Preview
Page 1180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०श अध्यायः सूत्रस्थानम्। ११६६ कारणं वीजपपौरुषेयं तस्माच्च वीजादक रो जायते वीजचोपमृदनन्नङ्क रोऽभिव्यज्यते, तथा वेदोऽपौरुषेयोऽपि यदाभिव्यज्यते तदा तमपौरुषेयं वेदमुपमृदनन् प्रजापतिमुखादभिव्यज्यते, इति वीजभूतवेदस्योपमद्देनेनाभिव्यक्तवेदरूपवेऽभावादभिव्यक्तवेदनान्नाशोऽक रनाशे वीजाभाववदिति, तस्मात् वेदोऽपौरुषेयोऽप्यनित्यः। अत्र चेदुच्यते-न वीजादकुरप्रादुर्भाववद्वीजभूताद् वेदमात्राद वेदप्रादुर्भावः स्थौल्यहेतूपादानान्तरानुप्रविशतो वेदाद्वदाभिव्यक्तस्तदुपादानान्तरनाशात् पूर्वभावेण वेदावस्थानादिति। तत्र ब्रूमःतेषामपि हि तदद्योगे दृष्टवाधादिप्रसक्तिः। हि यस्मात्। तेषामङ्कु रादीनामपि तदुपादानवीजस्य नित्यस्य तदुपादानान्तरक्षेत्रमृजलादियोगे यथा प्रादुर्भावस्तथा वीजभूताद वेदात् उपादानान्तरसत्त्वरजस्तमोगुणप्रधानेऽपि प्रव्यक्तरूपेण ब्रह्मणो मुखात् प्रादुर्भावेऽपि वेदानां दृष्टस्य प्रत्यक्षेण वीजादकरोत्पादस्य ततः प्रदानग्रहणादेश्च बाधादिप्रसङ्गः स्यात् तस्मादपौरुषेयखान्न नित्यवं वेदानामिति । तत्राह कपिलः । यस्मिन्नदृष्टऽपि कृतबुद्धिरुपजायते तत् पौरुषेयम् । यस्मिन् अदृष्टऽपि मुक्ष्मे नित्ये भावे कारणतः स्थूलरूपेणाभिव्यक्तो कृतोऽयं भाव इति बुद्धिरुपजायते यस्य तन्मते तत् पौरुषेयमुच्यते, विश्वरूपस्य निश्वासात् प्रजापतिमुखाद वेदोत्पत्तेरिति । सतस्तु कारणान्तरयोगेणाभिव्यक्ति रिति नोच्यते । तन्न प्रमाणम् । किं पुनः प्रमाणमित्यत आह-निजशत्त्याभिव्यक्तः सतः प्रामाण्यम् । सतो नित्यस्य सूक्ष्मस्य वीजभूतस्य निजशक्त्या स्व. प्रभावेण कारणान्तरमादाय स्थूलरूपेणाभिव्यक्तः सतः प्रामाण्यम् । कुतः ? यतः नासतः ख्यानं नृशृङ्गवत्। असतोऽविद्यमानस्य खल्ववस्तुनः ख्यानमभिव्यक्त्यनभिव्यक्त्युतपत्त्यादिवचनं नास्ति। नृशृङ्गवत । यथा नृणां शृङ्गमुत्पद्यते नोत्पद्यते वेति नोच्यते। उपादानाभावात् । तहि किं सतः ख्यानमित्यत आह---न सतो वाघदर्शनात् । सत उत्पत्तेः ख्यानञ्च न वाघदर्शनात् । यत् प्रागेवास्तीति सत्। तस्य पुनरुत्पत्तिः कथं सम्भवतीति वाघदर्शनात्। तहि किमनिब्वेचनीयस्योत्पत्तिख्यानमित्यत आह–नानिश्चितवचनीयस्य तदभावात् । अनिश्चितवचनीयस्य खल्वस्ति वा नास्तीति निवचनानहस्य नोत्पत्तौ ख्यानं, तदभावात्। किमुपादानक जायत इति निवचनाभावात्। तहि कस्य ख्यानं भवतीत्यत उच्यतेस्वभावनित्यस्वं दर्शयति- यथोक्तमित्यादि। सामान्यविशेषकृतवृद्धिहासकारकोऽपि भावस्वभावो न केनचित् कृत इत्यर्थः, ततश्चायुर्वेदोऽपि नित्यः ।। १३।१४ ॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy