SearchBrowseAboutContactDonate
Page Preview
Page 1177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११६६ चरक-संहिता। [ अर्थेदशमहामूलीपः मानगुरूणामुपचयो भवत्यपचयो लघनामेवमितरेषामिति । एष भावस्वभावो नित्यः, स्वस्वलक्षणञ्च द्रव्याणां पृथिव्यादीनाम्। सन्ति तु द्रव्याणि गुणाश्च नित्यानित्याः। हासः लघूनां गुरुणा हास इति विशेषस्य स्वभावः। एष भावस्वभावो नित्यः, न हि सामान्येन समानां हासो न विशेषेणासमानां द्धिः। एव सव्वत्र। स्खलक्षणञ्च पृथिव्यादिद्रव्याणां खरद्रवोष्णचलखाप्रतिघातलक्षणानि क्रमेण पृथिव्यादीनां नित्यानि । न हि द्रवोष्णचलाप्रतिघातलक्षणा पृथिवी कदाच स्यादवलक्षणाश्चापोऽनुप्णलक्षणं तेजोऽचललक्षणो वायुः प्रतिघातलक्षण आकाशः स्यादिति । तहि किं सर्च नित्यं नास्तानित्यमिति अत आह–सन्तीत्यादि । द्रव्याणि नित्यानि चानित्यानि च सन्ति। पृथिव्यादिद्रव्यकार्याणि द्रव्याणि हि अनित्यानि पृथिव्यादीनि च नित्यानि। गुणाश्च नित्यानित्याः । पृथिव्यादीनां ये गुणाः सामान्यभूताः गन्धादयस्ते नित्याः, कार्यद्रव्याणां पार्थिवादीनां शरीरेन्द्रियविषयसंज्ञानां कार्यभूताः पूतिवित्रादयो गन्धादयोऽनित्या विस्रादिगन्धा मधुरादिरसपीतादिरूपशीतादिस्पर्शोदात्तादिशब्दा अभूतोत्पन्नाः पृथिव्यादीनां कारणभूतगन्धादिजाः। अपूर्चाः। न हि पूच्चभूताः तिरोभूता वर्तन्ते पुनश्चोत्पद्यन्ते। तस्मादनित्याः। पूर्वोक्त घटयति गुरुभिरित्यादिना एवमेवेतरेषामित्यन्तेन ; एवमेवेतरेपामिति लघुभिरभ्यस्यमानैः लघूनामुपचयो भवति, अपचयो गुरूणामित्यादि द्रष्टव्यम् ; एप इत्येवंप्रकारभावस्वभावो नित्य इति नैष सामान्यविशेषाभ्यां वृद्धिहासरूपो भावस्वभावः कदाचिदन्यथा भवतीत्यर्थः । न केवलमयं भावस्वभावो नित्यः, किं तर्हि भन्योऽपीत्याह-स्वलक्षणन्चेत्यादि। स्वलक्षणं पृथिव्यादीनां खरद्वत्वादि, कथं पृथिव्यादिस्वलक्षणं नित्यमित्याह-सन्ति स्वित्यादि। द्रव्याणि यस्मात् सर्वदा सन्ति, गुणाश्च नित्याः सर्वदा, चकारात् द्रव्याणि चानित्यानि मान्त ; तत्राकाशादि द्रव्यं नित्यं, पृथिव्यादिकञ्चानित्यम् ; एवंगुणा आकाशपरिमाणादयो नित्याः, अनित्याश्च कार्यगुणा रसादयः, अनित्या अपि च स्वजातीयापरापरसन्तानन्यायेन सर्वदा तिष्ठन्तीति युक्तम् ; अनित्यानामपि सन्ताननित्यत्वमिति भावः। अत्र भावस्वभावनित्यत्वेन हेतुना भावस्वभावस्य व्याधिजनकस्य तथा व्याधिशमकस्य नित्यत्वेन तत्प्रतिपादकस्यायुर्वेदस्य नित्यत्वमुक्त भवतीति मन्तव्यम्। For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy