SearchBrowseAboutContactDonate
Page Preview
Page 1169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११५८ चरक-संहिता। अर्थदशमहामूलीयः ___ तत्रायुष्याण्यनायुष्याणि च द्रव्यगुणकर्माणि केवलेनोपदेच्यन्ते तन्त्रंण । तत्रायुरुक्तं स्वलक्षणतो यथा यदिहेव पूर्वाध्याये। यच्च सुखादितस्तत्र शारीरमानसाभ्यां रोगाभ्यामनभिद् तस्य विशेषेण यौवनवतः समर्थानुगतबलवीर्य-यशः पौरुषपराक्रमस्य ज्ञानविज्ञानेन्द्रियार्थबलसमुदाये वर्तमानस्य परमर्द्धिरुचिरविविधोपभोगस्य समृद्धसर्वारम्भस्य यथेष्टविचारिणः सुखमायुरुच्यते। असुखमतो विपर्यायेण । हितैषिणः पुनभूतानां परस्वादुपरतस्य सत्यवादिनः सामपरस्य हेतोर्वायुष्याण्यनायुष्याणि द्रव्यादीनि वेदयति, अतोऽपि कारणादायुव्वंद इति संज्ञा। एतेनायुव्वेदस्य प्रयोजनमुक्तमायुपो हिताहितम् ॥९॥ ___ गङ्गाधरः--कानि तानीह वेदयतीति ? अत आह-आयुष्याण्यनायुष्याणि द्रव्यादीनि केवलेन कृत्स्नेन तन्त्रेणोपदेश्यन्ते। तत्रायुः स्वलक्षणतः कुत्र प्रोक्तमिति ? अत आह-तत्रेत्यादि। स्खलक्षण आयुरुक्तं पूर्वाध्याये यथा तथैवेह चेतनानुत्तिरित्यादिना । सुखासुखतो हिताहिततश्चेहोच्यते। तत्र शारीरमानसाभ्यां रोगाभ्यामनभिद्रतस्य अभिद्रवाभाववतः, अनभिभूतस्याभिभवाभाववतश्च। विशेषेण वाल्यवार्द्धक्याभ्यां विशेषण यौवनवतः समर्थानुगतवलादिकस्य ज्ञानादिसमुदाये वर्तमानस्य परमद्धिरुचिराप्रपभोगयुक्तस्य समृद्धसवारम्भस्य–समृद्धिमन्तः सर्चकम्मेणामारम्भा यस्य । यथेष्टविचारिणः स्वस्वाभिलाषानुरूपविशेषचरणशीलस्य जनस्य सुखमायुरुच्यते। असुखमायुरतो विपय्येयेणाभिधीयते। अथ हितायुयस्य तदाह-हितैषिण इत्यादि। भूतानां हितैषिणः स्वयमेवोदाहरिष्यति । आयुष्यानायुष्ये 'आयुःशब्देन वक्तव्ये, तेन आयुष्यानायुष्यवेदपक्षे गौणी निरुक्तिः 'आयुर्वेदः' इति । अत एवात्र 'अपि'शब्दः- 'अतोऽप्यायुर्वेदः' इति ; अनायुष्यमपि च ज्ञातमसेव्यत्वेनाव्यवह्रियमाणमायुःकारणं भवत्येव, तेनानायुष्यमप्यायुःकारणतयायुःशब्दवाच्यं, नात्रापराधः। इहैवेति तत्रायुः 'चेतनानुवृत्तिः' इत्यादिना। तत्र 'शारीर'-इत्यादिना सुखमायुरभिधत्ते ; पौरुषमुत्कृष्ट कर्म ; ज्ञानविज्ञानेन्द्रियैर्बलशब्दः, इन्द्रियार्थेन च समुदायशब्दः सम्बध्यते ; किंवा ज्ञानादिभिः सबैरेव समुदायशब्दः सम्बध्यते। किंवा ज्ञानादिभिः सव्वैरेव 'बलसमुदाये' इति भोज्यम्, बलस्य समुदायो बलसमुदायः ; परमात्यर्थद्धिर्यस्य स परमर्द्धिः ; For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy