SearchBrowseAboutContactDonate
Page Preview
Page 1147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विविधाशितपीतीयः ११३५ चरकसंहिता। तत्र श्लोकाः। आहारप्रभवं वस्तु रोगाश्चाहारसम्भवाः । हिताहितविशेषाच्च विशेषः सुखदुःखयोः ॥ सहत्वे चासहत्वे च दुःखानां देहसत्त्वयोः । विशेषो रोगसङ्घाश्च धातुजा ये पृथक पृथक् ॥ तेषाञ्चैव प्रशमनं कोष्ठाच्छाखा उपेत्य च। दोषा यथा प्रकुप्यन्ति शाखाभ्यः कोष्ठमेत्य च ॥ प्रज्ञाज्ञयोर्विशेषश्च स्वस्थातुरहितञ्च यत् । विविधाशितपीतीये तत् सव्वं सम्प्रकाशितम् ॥ १४ ॥ इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते श्लोकस्थानेऽन्नपानचतुष्के विविधाशितपीतीयो नामाष्टाविंशोऽध्यायः ॥२८॥ गङ्गाधरः-अध्यायाथमाह-तत्र श्लोका इति। आहारप्रभवमित्यादि स्फुटार्थम् ॥१४॥ अध्यायं समापयति-अग्नीत्यादि । पूर्ववत् । इत्यन्नपानचतुष्कः, सप्त चतुष्काञ्च । इति श्रीगङ्गाधरकविरत्नकविराजकृते चरकजल्पकल्पतरौ सूत्रस्थानीया. ष्टाविंशान्नपानविध्यध्यायजल्पाख्या अष्टाविंशी शाखा ॥२८॥ चक्रपाणिः-संग्रहे वरिवति शरीरम् । सहत्वे चासहत्वे चेत्यादिना शरीराणि चाति स्थूलानीस्यादि विपरीतानि पुनर्व्याधिसहानि' इत्यन्तं ग्रन्थं ज्ञापयति ॥ १४ ॥ इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थान व्याख्यायां विविधाशीतपीतीयो नाम अष्टाविंशोऽध्यायः ॥ २८ ॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy