SearchBrowseAboutContactDonate
Page Preview
Page 1131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२० चरक-संहिता। [विविधाशितपातीयः अनुवर्तयन्ते यथावयः शरीरम् । एवं रसमलौ स्वप्रमाणावस्थितावाश्रयस्य समधातोर्धातुसान्यमनुवत्तयतः ॥२॥ मलाभ्यामाहारजाभ्यां पुष्यन्तो यथावयः शरीरं स्वं मानं प्रकृतिमानमनुवर्तयन्ते । वयोऽनुरूपं यथावयस्तु शरीरं जन्मावधिप्रत्यग्रस्वभावधातुसमुदायात्मकम् । धातूनां हि प्रत्यग्रता खल्वग्रषग्रनिति प्रत्यग्र वत्तते प्रत्यग्रभावस्तु स्वभावात् त्रिंशद्वर्षं यावद्वत्तते। तत्र पोडशवर्ष यावदसम्पूर्णभावेन प्रत्यग्रभावः, षोडशे तु सम्पूर्ण सव्वधातुशरीरं भवति। उक्तश्च सुश्रुते। यथा हि पुष्पमुकुलस्थो गन्धो न शक्यमिहास्तीति वक्त न वास्तीति । अथवास्ति सतां भावानाम् अभिव्यक्तिरिति कृता केवलं सोक्षम्यान्नाभिव्यज्यते । स एव गन्धो वित. पत्रकेशरे कुमुमे कालान्तरेणाभिव्यक्तिं गच्छति, एवं बालानामपि वयःपरिणामाच्छुक्रमादुर्भावो भवति। रोमराज्यादयोऽथातवादयश्च विशेषा नारीणां रजसि चोपचीयमाने शनैः शनैः स्तनगर्भाशययोन्यभिद्धिर्भवति। स एवानरसो वृद्धानां जरापरिपकशरीरखान्न प्रीणनो भवति। त एते शरीरधारणाद्धातव उच्यन्ते इति । बालानामिति वचनेन पोडशवर्षपय्येन्तं ख्यापितमिति। ततस्तु त्रिंशद्वपं यावत् सम्पूर्णसर्वशतूनां प्रत्यग्रभावस्तेनाहाररसात् क्रमेण शरीरं वद्धते धातुद्धया। त्रिंशद्वादृद्ध धातूनां स्थैय्यस्वभावः पष्टिवषं यावत् । तेन समभावः शरीरस्य न क्षयो न वृद्धिश्च स्यात् । षष्टिवादृर्द्ध सप्ततिवपं यावत् हासारम्भस्वभावस्तेन ह्रासारम्भमात्र शरीरस्य भवति । सप्ततिवर्षादूद्ध क्षयः क्रमेण भवति वाद्धक्यं तदोच्यते। इति यथावयः शरीरं बोध्यमिति । एवमनेन प्रकारेण रसश्च मलश्चेति द्धो स्वप्रमाणावस्थितौ तद्रसमलयोराश्रयस्य समधातोः शरीरस्य धातुसाम्यमनुवत्तयत इति । रसतो रसाउत्तरोत्तरपोषणमुक्तं सुश्रुते शोणितवणनीये। तद यथा-तत्र पाञ्चभोतिकस्य चतुविधस्य परसस्य द्विविधवीय्यस्याष्टविधवीय्यस्य वानेकगुणस्योपयुक्तस्याहारस्य सम्यकपरिणतस्य यस्तेजोभूतः सारः परममूक्ष्मः स रस इत्युच्यते । तस्य च हृदयं स्थानं, स हृदयाच्चतुर्विशतिं उपपादितपोषणानां धातुमलानां प्रकृत्यनुविधानमुपसंहरति-ते. सर्व इत्यादि ।-मलाख्या अपि स्वेदमूत्रादयः स्वमानावस्थिता देहधारणात् धातवो भवन्तीत्युक्त-"धातवो मलाख्याः" इति ; यथावयः शरीरमिति यस्मिन् वयसि बाल्यादौ यादृशं मानं धातूनां, तादृशं पुष्यन्तः ; तथा यस्मिन् शरीरे प्रकृत्या दीर्घ ह्रस्वे कृशे वा स्थूले वा यादृशं मानं धातृनां, तादृशं पुष्यन्त For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy