SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०१ म अध्यायः सूत्रस्थानम् । यत्रेत्यादि । कर्मगुणा यत्राश्रितास्तद यद यस्य कार्य्यस्यारम्भे कर्मगुणाश्रयीभूतं सत् समवायिकारणं तत्क्रियया विक्रियमाण कार्यरूपेण परिणामि भवति, तत्तस्य कार्यस्य द्रव्यं नाम कारणं भवति । तद यथा । सत्त्वात्मशरीरेतित्रयात्मके पुरुष खल्वारभ्यमाणे वायुतेजोजलभूभिमनसां क्रियाभिः सर्वेषां नवानां संयोगे तत्तक्रियाभिरुपचरितक्रियावन्त आकाशात्मदिक्काला भवन्तो वाय्वादिभिः सह मिलिखा तत्तत्पुरुषरूपेण परिणमन्त एव नवैव तस्य पुरुषस्य समवायिकारणानि भवन्तीति। खादीन्यात्मा मनः कालो दिक् चेति नवैव पुरुषस्य द्रव्याणि, द्रतिक्रियया यद रूपान्तरेण यत्परिणामि तत् समवायिकारण तस्य कार्य्यस्य तद द्रव्यं नाम कारणमिति योगरूढ़मिद बोध्यम् । कम्मेयुक्तया कार्यारम्भकाणां कार्यवेन परिणमने स्वस्वकम्भव हेतुरिति ख्यापितं न हि स्वस्त्रक्रियां विना परस्पर संयोगः स्यात् तत्संयोगाधीनश्च तद द्रव्यगुणानां परस्परं समवायः कम्प्रणाञ्च परस्परं समवायश्च स्यात् तत्तद्रूपेण परिणामश्च लभ्यते। गुणानुक्तौ तत्तत्कार्यारम्भे खादीनां प्राधान्य न ख्याप्यते गुणारम्भकखं च खादीनां सम्भाव्यते। कालदिशोः निगु णयोश्च कार्यारम्भे सक्रियवावादिक्रियया शेषैः सह संयोगे तद्वाय्वादिक्रिययोपचरितक्रियावत्त्ववत् खादिगुणोपचरितगुणवत्त्वञ्च न प्राप्यते । तस्मात् तदुपचरितगुणवत्त्वेन कार्यखेन परिणामार्थं गुणा इति पदम् । आश्रिता इति पदेन कार्यारम्भे गुणकर्मणामप्राधान्य ख्यापितम् । द्रव्यस्य द्रव्यात्मकमारम्भे समवायिकारणवं ख्यापितं न तु गुणकर्मारम्भकतमिति। समवायीत्युक्त्या कार्यानारम्भकाणां कर्मगुणवतां तत्कायें द्रव्यख व्यवच्छिन्नम्। यथा घटादिकार्यस्य नात्मा मनश्च द्रव्यं कम्मगुणाश्रयोऽपि न घटारम्भे घटस्य समवायिकारणमात्मा मनश्चास्ति । इत्येवं तुल्यकार्यकरत्वं कार्ये गुणकर्माश्रयसमवायिकारणलं खादीनां नवानां सामान्य तथाविधसमवायो वा। पुरुषाणाञ्चैतानि तुल्यनिमित्तकत्वसामान्यानि। कर्म च गुणाश्च यत्राश्रितास्तत् समवायिकारणं यद्भवति तद्र्व्यं तस्य काय्यस्येत्यर्थः। परखाद्याश्रया अपि शब्दादयो गुणा न कश्रियास्तेन शब्दादीनां द्रव्यखवारणाय कम्मतिपदम् । एवं कापि परखाद्याश्रय निश्चरः, चेशानिर्गत्या चेह चेशाशून्यत्वं तथा चेराव्यतिरिकत्वञ्चोच्यते, तेन चेयारूपात् कर्मणो व्यावृत्तिः, तथा क्रियाधारत्वयोग्येभ्यो मूर्तद्रव्येभ्यो व्यावृत्तिः सिद्धा ; गुणस्य "कारणम्" इत्यनेन For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy