SearchBrowseAboutContactDonate
Page Preview
Page 1122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७श अध्यायः . सूत्रस्थानम् । सुगन्धिपुष्परचिते समे देशेऽथ भोजयेत्। विशिष्टमिष्टसंस्कारैः पथ्यैरिष्ट रसादिभिः। मनोज्ञ शुचि नात्युष्णं प्रत्यग्रमशनं हितम् । पूर्व मधुरमश्नीयान्मध्येऽम्ललवणौ रसौ। पश्चाच्छेषान् रसान् वैद्यो भोजनेष्वव. चारयेत् । आदौ फलानि भुञ्जीत दाडिमादीनि बुद्धिमान। ततः पेयाः ततो भोज्यान भक्ष्यांश्चित्रांस्ततः परम्। घनं पूर्व समश्नीयात् केचिदाहुः विपर्ययम् । आदावन्ते च मध्ये च भोजनस्य तु शस्यते। निरत्ययं दोष. हरं फलेप्चामलकं नृणाम्। मृणालविसशालूक-कन्देक्षुप्रभृतीनि च। पूब्ध योज्यानि भिषजा न तु भुक्ते कथञ्चन। सुखमुच्चैः समासीनः समदेहोऽन्नतत्परः । काले सात्म्यं लघु स्निग्धं क्षिप्रमुष्णं द्रवोत्तरम् । बुभुक्षितोऽन्नमश्नीयात् मात्रावद् विदितागमः। काले भुक्तं प्रीणयति सात्म्यमन्नं न बाधते। लघु शीघ्रं व्रजेत् पाकं स्निग्धोष्ण बलवह्निदम् । क्षिप्रं भुक्तं समं पाकं यात्यदोषं द्रवोत्तरम् । मुखं जीय्येति मात्रावत् धातुसाम्यं करोति च। अतीवायतयामास्तु क्षपा येष्टतुषु स्मृताः। तेषु तत्प्रत्यनीकान्य भुञ्जीत पातरेव तु । येषु चापि . भवेयुश्च दिवसा भृशमायताः। तेषु तत्कालविहितमपराह्न प्रशस्यते । रजन्यो दिवसाश्चैव येषु चापि समाः स्मृताः। कृखा सममहोरात्रं तेषु भुञ्जीत भोजनम् । नाप्राप्तातीतकालं वा हीनाधिकमथापि वा। अमाप्तकाले भुञ्जानः शरीरे ह्यलघौ नरः। तांस्तान् व्याधीनवाप्नोति मरणं वा स गच्छति। अतीतकाले भुञ्जानो वायुनोपहतेऽनले। कृच्छाद विपच्यते भुक्तं द्वितीयश्च न कासति । हीनमात्रमसन्तोषं करोति च बलक्षयम् । आलस्यगौरवाटोप-सादांश्च कुरुतेऽधिकम् । तस्मात् सुसंस्कृतं युक्त्या दोषैरेतेविवर्जितम्। यथोक्तगुणसम्पन्नमुपसेवेत भोजनम्। विभज्य कालदोषादीन् कालयोरुभयोरपि। अचोक्षं दुष्टमुच्छिष्टं पाषाणतणलोष्ट्रवत्। द्विष्टं व्युषितमस्वादु पूति चान्नं विवज्जयेत् । चिरसिद्धं स्थिरं शीतमन्नमुष्णीकृतं पुनः। अशान्तमुपदग्धश्च तथा स्वादु न लक्ष्यते। यद् यत् स्वादुतरं तत्र विदद्यादुत्तरोत्तरम् । प्रक्षालयेद द्भिरास्यं भुञ्जानस्य मुहुर्मुहुः। विशुद्धरसने तस्मिन् रोचतेऽन्नमपूर्ववत् । स्वादुना तस्य रसनं प्रथमेनापि तर्पितम् । न तथा स्वादयेदन्यत् तस्मात् प्रक्षाल्यमन्तरा। सौमनस्पं बलं पुष्टिमुत्साहं हर्षणं मुखम् । स्वादु सञ्जनयत्यनमस्वादु च विषय्येयम् । भुक्त्वा च यत् प्रार्थयते भूयस्तत् स्वादु भोजनम्। अशितञ्चोदकं युक्त्या भुञ्जानश्चान्तरा पिवेत् । दन्तान्तरगतश्चान्नं शोधनेन हरेच्छनैः। कुर्यादनाहृतं तद्धि मुखस्यानिष्ट For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy