SearchBrowseAboutContactDonate
Page Preview
Page 1102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७श अध्यायः सूत्रस्थानम् । १०६१ पियालतैलं मधुरं गुरु श्लेष्माभिवद्धनम् । हितमिच्छन्ति नात्योष्ण्यात् संयोगे वातपित्तयोः॥ फलानां यानि चान्यानि तैलान्याहारसन्निधौ। युज्यन्ते गुणकम्मभ्यां तानि याद यथा फलम् ॥५८ ॥ तथा लघु। कुष्ठामयक्रिमिहरं दृष्टिशुक्रबलापहम् ॥ इति। पियालेत्यादि । पियालवीजस्य तैलं मधुरादिगुणं नात्यौष्ण्याद्वातपित्तयोः संयोगे हितमिच्छन्ति तज्ज्ञाः इति । सुश्रुते च-किराततिक्तकातिमुक्तकविभीतकनारिकेलकोलाक्षोड़जीवन्ती पियालकव्वु दार-मूर्यबल्ली-त्रपुषैरुिक--कर्कार--कुष्माण्ड. प्रभृतीनां तैलानि मधुराणि मधुरविपाकानि वातपित्तप्रशमनानि शीतवीर्याण्यभिष्यन्दीनि सृष्टविण्मूत्राणि अग्निप्रसादनानि चेति ।। ___ अनुक्तफलतैलान्युपसंहरति---फलानामित्यादि। यानि च अन्यानि फलानि तेषां यानि तैलानि आहारादिविधौ युज्यन्ते तानि तस्य तस्य फलस्य यानि गुणकर्माणि ताभ्यां तानि तैलानि ब्रूयादिति । तथा च सुश्रुते-मधूककाश्मय्येपलाशतैलानि मधुरकषायाणि कफपित्तप्रशमनानि च। तुवरकभल्लातकतैले उष्णे मधुरकषाये तिक्तानुरसे वातकफकुष्टमेदोमेहक्रिमिहरे उभयतोभागदोपहरे च। सरलदेवदारुगण्डीरशिंशपागुरुसारस्नेहास्तिक्तकटुकपाया दुष्टत्रणशोधनाः क्रिमिकफकुष्ठानिलहराश्च। तुम्बीकोशाम्र-दन्ती-द्रवन्तीश्यामा-सप्तलानीलिका-कम्पिल्लक-शविनीस्नेहास्तिक्तकटुकषाया अधोभागदोपहराः क्रिमिकफकुष्ठानिलहरा दुष्टत्रणविशोधनाश्च । यवतिक्तातैलं सवेदोषप्रशमनमीषतिक्तमग्निदीपनं लेखनं मेध्यं पथ्यं रसायनश्च । एकेषिकातैलं मधुरमतिशीतं पित्तहरमनिलप्रकोपणं श्लेष्माभिवर्द्धनञ्च। सहकारतैलमीपत्तिक्तमतिसगन्धि वातकफहरं रुक्षं कषायं रसवन्नातिपित्तकरश्च। फलोद्भवानि तैलानि यान्यनुक्तानि कानिचित् । गुणान कम्मे च विज्ञाय फलवत् तानि निदिशेत् ॥ यावन्तः स्थावराः स्नेहाः समासात परिकीर्तिताः। सर्वे तैलगुणा ज्ञयाः सर्वे चानिलनाशनाः॥ सर्वेभ्यस्विह तैलेभ्यस्तिलतैलं प्रशस्यते। निष्पत्तेस्तद्गुणखाच तैलखमितरेवपि॥५७५८॥ अनुक्ततैलगुणनिर्देशार्थमाह-फलानामित्यादि। फलानामित्युपलक्षणम्, तेन, सारस्नेहा अपि सुश्रु तोक्ता बोदव्याः ; यथाफलमिति यादृशगुणं फलम्, तादृश एव तत्स्नेहोऽपीत्यर्थः ॥५७।५८॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy