SearchBrowseAboutContactDonate
Page Preview
Page 1098
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७ अध्यायः सूत्रस्थानम् । १०८७ रसाला वृहणी वष्या स्निग्धा बल्या रुचिप्रद।। स्नेहनं तर्पणं हृद्य वातघ्नं सगुई दधि ॥ द्राक्षाखजरकोलानां गुरु विष्टम्भि पानकम् । परूषकाणां क्षौद्रस्य यच्चेनुविकृति प्रति ॥ तेषां कटुम्लसंयोगात् पानकानां पृथक् पृथक् । द्रव्यं मानञ्च विज्ञाय गुणकर्माणि निर्दिशेत् ॥ ५४ ॥ कटुम्लस्वादुलवणा लघवो रागवाड़वाः। मुखप्रियाश्च हृद्याश्च दीपना भक्तरोचनाः ॥ गङ्गाधरः-रसालेत्यादि। रसाला नाम शिखरिणी। तदुक्तम्-सचातुजातकाजाजि सगुड़ाद्रकनागरम् । रसाला स्याच्छिखरिणी सुघृष्ट ससरं दधि । सुश्रुते च-रसाला हणी वल्या स्निग्या दृष्या च रोचना। इति । स्नेहनमित्यादि । सगुई दधि स्नेहनादिगुणं स्यात्। सुश्र ते च-स्नेहनं गुड़संयुक्तं हृद्य दध्यनिलापहम् । इति । द्राक्षेत्यादि। द्राक्षादीनां व्यस्तसमस्तानां कृतं पानकं गुरु विष्टम्भि च । द्राक्षादीनि पिष्ट्वा जले गोलयिखा वस्त्रपूतं कृखा यत् पानाहं करोति तत् पानकम् । एवं सव्यंत्र। एवं परूषकाणां पानकं यच्च सौद्रस्य पानकं यच्च पानकमिक्षुविकृति प्रति शक रादिकृतं तेषां पानकानां कदम्लसंयोगाल्लिम्पाकदाडिमाघम्लमरिचादिकद्रव्यसंयोगात् पृथक पृथक द्रव्यं मानश्च तत्तद्रव्याणां विज्ञाय गुणकर्माणि तेपां पानकानां निदि शेत् । सुश्रुते च-गौड़मम्लमनम्लं वा पानकं गुरु मूत्रलम्। तदेव खण्डमृद्वीकाशकरासहितं पुनः । साम्लं सुतीक्ष्णं मुहिमं पानकं स्यान्निरत्ययम। माकन्तु श्रमहरं मूर्छादाहत्यापहम्। परूपाणां कोलानां हृदंग विष्टम्भि पानकम । द्रव्यसंयोगसंस्कारं ज्ञाखा मात्राञ्च सर्वतः । पानकानां यथायोगं गुरु लाघवमादिशेत् ॥ इति ॥५४॥ गङ्गाधरः-कटुम्लेत्यादि। रागपाड़वा इति । कथितन्तु गुडोपेतं सहकारफलं नवम् । तिलनागरसंयुक्तं विने यो रागपाड़वः ॥ इति नलः। अथवा, चक्रपाणिः-रसालालक्षणम्,-"सचातुर्जातकाजाजि सगुड़ाईकनागरम् । रसाला स्याच्छिखरिणी संघुष्टं ससरं दधि ॥” रसालाप्रसङ्गेन सगुड़दधिगुणमाह-स्नेहनमित्यादि । पानकानामपि कृतान्नतो भेदाद तदगुणमाह --द्राक्षेत्यादि। यच्चेक्षुविकृति प्रति पानकमिति सम्बन्धः । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy