SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६७ म अध्यायः] सूत्रस्थानम् । चोक्तं भवति। कार्यमारभमाणे यत्र कारणे कर्मगुणा आश्रिता भवन्ति काये जायमाने जायमानतत्कर्मगुणाश्रयः सन् यत्कारणं समवायि तत्कायें समवायि भवति, तत्कारणं द्रव्यमुच्यते। समवैतुं सजातीयविजातीयरूपेण परिणमदेकीभवितुं शीलमस्येति समवायि कार्यरूपेण परिणमदेकीभावि समवायि। कारणं-कारयति यत् तत्कारणम् । लक्षणस्यास्य लक्ष्य प्रानिर्दिष्ट खादिनवकम्। द्रव्यगुणयोः सजातीयारम्भकलं साधम्र्यम्। द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् । कासाध्यं कम्मे न विद्यते। खादिद्रव्याणि खादिसजातीयद्रव्यान्तरमारमन्ते न तु खादीनि वाय्वादिद्रव्यान्तरम्, शब्दादिगुणं कर्म वा। गुणाश्च शब्दस्पर्शादयः शब्दादीन् गुणान्तरानारभन्ते न तु स्पर्शादीन् गुणान् न वा खादीनि द्रव्याणि कर्माणि वा। इत्येवं सजातीयारम्भकवं द्रवयगुणयोः स्वभावसिद्धमस्ति। कर्म तु सजातीयमानं कर्म नारभते न च कर्मासाध्यं विद्यते। कार्यारम्भे चिन्त्याचिन्त्यक्रियाहेतुभूतं तु कारभते। तथा च । सक्रियाणि वायुतेजोऽम्बुप्रथिवीमनांसि स्वभावसिद्धानि खात्मकालदिशश्च निष्क्रियाः स्वभावसिद्धाः । खादीनि पञ्च भूतानि सगुणानि मनश्च सगुणम् । आत्मकालदिशो निगुणाः। नवैतानि यदा देवनरादीनि आरभन्ते तदा सक्रियाणां वारवादीनां कर्मभिः खात्मकालदिशां संयोगे जाते पुनविभागे पुनः संयोगे पुनर्विभागे चैवं नवानां पुनः पुनः संयोगविभागाभ्यां खात्मकालदिशां क्रिया जायन्ते, गुणाश्चानभिव्यक्ता ये शब्दबुद्धिशीतोष्णवर्ष लक्षणकृद गुणापेक्षाकृद गुणास्तेऽभिव्यज्यन्ते। इति तेऽनभिव्यक्ताः शब्दादयो गुणा व्यक्तशब्दश्लक्ष्णादीनारभमाणाः खात्मकालदिग्भिरारभ्यमाणाः खात्मकालदिश आश्रयन्ति जायमानाः क्रियाश्चेत्येवं जायमानकर्मगुणानाश्रयन्त्यः खात्मकालदिशः कार्य समवयन्ति। एवं वाय्वादयः पञ्च वायवादीनि पञ्चारमन्ते तेषां गुणाश्चाव्यक्ताश्च खरवादयो व्यक्ताश्च स्पर्शादयो व्यक्तानेव खरवादीन् स्पर्शविशेषादीन गुणान् आरभन्ते । क्रियाश्च क्रियान्तराण्यारभन्ते । ते च गुणाः ताश्च क्रिया जायमाना जायमानान् वाय्वादीनाश्रयन्तीत्येवं जायमानक्रियागुणान् आश्रयन्तो वाय्वादयः कार्ये 'समवयन्ति। इत्येवं जायमानक्रियागुणवन्त वायिकारणम्, समवायिकारणञ्च तत् यत् स्वसमबेतं कार्यं जनयति । गुणकर्मणी तु न स्वसमबेतं कार्यं कुरुतः, अतो न ते समवायिकारणे। एतत्कर्मवत्त्वं हि दन्यस्य गुणादिपञ्चपदार्थ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy