SearchBrowseAboutContactDonate
Page Preview
Page 1080
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७श अध्यायः सूत्रस्थानम् । १०६६ योनिकणशिरःशलं घृतं जीर्णमपोहति । सी ष्यजावीमहिषी-क्षीरवत् स्वादु * निर्देशेत् ॥ ४४ ॥ वृष्यं मेध्यं वयःस्थापनं गुरु चक्षुष्यं श्लेष्माभिवर्द्धनं पाप्मालक्ष्मीप्रशमनं विषहरं रक्षोन्नश्च। क्षीरघृतं पुनः संग्राहि रक्तपित्तभ्रममूर्छाप्रशमनं नेत्ररोगहितश्च । सपिः पुराणं सरं कटुविपाक त्रिदोषापहं मूर्छामेदउन्मादोदरज्वरगरशोफापस्मारयोनिश्रोत्राक्षिशूलन दीपनं वस्तिनस्याक्षिपूरणेपूपदिश्यते । भवन्ति चात्र। पुराणं तिमिरश्वास-पीनसज्वरकासनुत् । मूछोकुष्ठविषोन्माद-ग्रहापस्मारनाशनम् । एकादशशतञ्चैव वत्सरानुषितं घृतम्। रक्षोन्नं कुम्भसपिः स्यात् परतस्तु महाघृतम्। पेयं महाघृतं भूतैः करुन पवनाधिकः। वल्यं पवित्रं मेध्यञ्च विशेषात् तिमिरापहम्। सर्वभूतहरञ्चैव घृतमेतत् प्रशस्यते ।। इति। ननु दध्यादिकं सर्व क्षीरविकारमूतं क्षीरन्वष्टविधमक्तं पृथगगुण दध्यादिकन्तु किं न पृथगगुण भवतीत्यत आह -सपी पीत्यादि। सी'पि इति बहुवचनात् दधितक्रनवनीतघृतानीति अनावीमहिपीतिपदत्रयोपादानात पूर्वोक्ताष्टधा क्षीरयोनिः ख्यापिता। गव्यायष्टविधक्षीरवत् तत्तत्क्षीरसम्भवदधितक्रनवनीतघृतेष स्वादु स्वाद्वादिकं निद्दिशेत् । तदुक्तं पृथग्घृतगुणादिकं सुश्रुते-विपाके मधुरं शीतं वातपित्तविषापहम्। चक्षुष्यमय्यं बल्यश्च गव्यं सर्पिगुणोत्तरम् ॥ आज घृतं दीपनीयं चक्षुष्यं बलवर्द्धनम्। कासे श्वासे क्षये चापि पथ्यं पाकं च तल्लघु॥ मधुर रक्तपित्तन गुरु पाके कफावहम । वातपित्तप्रशमनं सुशीतं माहिषं घृतम् ॥ औष्ट्र कटुरसं पाके शोफक्रिमि विषापहम्। दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम् ॥ पाके लध्वाविक सर्पिने च पित्तप्रकोपणम्। कफेऽनिले योनिदोपे शोफे कम्पे च तद्धितम् । पाके लघूष्णवीर्यश्च कषायं कफनाशनम्। दीपनं बद्धमूत्रञ्च विद्यादैकशफ घृतम् ॥ चक्षुष्यमय्यं स्त्रीणान्तु सपिः स्यादमृतोपमम्। सृद्धिं करोति काहरणादिति ज्ञेयम्। मदेत्यादि । -जीर्णन्तु दशवर्षातीतम्, वचनं हि-"पुराणं दशवर्ष स्यात् प्रपुराणमतः परम्” इति ; यथा यथा च जीर्णत्वाकर्षः तथा तथा गुणोत्कर्षो ज्ञेयः, उक्त हि हारीते-“यथा यथा जरां याति गुणवत् स्यात् तथा तथा" इति। अनुक्तसर्पिगुणानतिदिशति सीपीत्यादि।-सीपि स्वानीति सम्बन्धः, तेन अजाक्षीविदजासपिनिदिशेदिति ; एवं * स्वाद्वित्यत्र स्वानीति साधीयान् पाठश्चक्रसम्मतः । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy