________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[अन्नपानविधिः
१०५६
चरक-संहिता। हेमन्ते सलिलं स्निग्धं वष्यं बलहितं गुरु । किश्चित् ततो लघुतरं शिशिरे करुवातजित् ॥ कषायमधुरं रुकं विद्याद वासन्तिकं जलम् । ग्रष्मिकन्त्वनभिष्यन्दि जलमित्येव निश्चयः॥ विभ्रान्तेष्वृतुकालेषु यत् प्रयच्छन्ति तोयदाः । सलिलं तत् तु दोषाय युज्यते नात्र संशयः॥ राजभी राजमात्रा सुकुमारैश्च मानवैः । सुगृहीताः शरद्यापः प्रयोक्तव्या विशेषतः ॥ ऋतावृताविहाख्याताः सर्व एवाम्भसांगुणाः ॥ ३७ ॥ नद्यः पाषाणविच्छिन्न-विक्षुब्धविमलोदकाः। हिमवत्प्रभवाः पथ्याः पुण्या देवपिसेविताः।
भक्ष्यादौ शस्यते। हेमन्त इत्यादि। हेमन्ते सर्व सलिलं सिग्वादिगुणम् । शिशिरे ततः किञ्चिल्लघुतरं सव्व सलिलम्। वासन्तिकं जलं सव्वं कषायमधुरादिगुणं विद्यात्। गौषिमकं सव्य जलमनभिष्यन्दीत्येव निश्चयः। विभ्रान्तेष्वित्यादि। पस्तुषु कालेषु विभ्रान्तेषु विपरीतलक्षणेषु तोयदा यत् सलिलं प्रयच्छन्ति वर्षान्त, तत् तु सलिलं त्रिदोषाय नानादोषाय च युज्यते तत्र न संशयः । राजभिरित्यादि । राजादिभिः शरदि गृहीतास्वान्तरीक्षा आपो विशेषतः सचेष्टतुषु प्रयोक्तव्याः। ऋतातो चाम्भसां सब्वे एव गुणा इहाख्याताः। इति ॥३७॥
गङ्गाधरः-तदलाभे तैरपरश्च यत् तोयं प्रयोक्तव्यं तदर्थमाह--नद्य इत्यादि। पाषाणविच्छिन्न स्रोतोवेगेन चलज्जलं यासां नदीनां गर्भस्थैः पाषाणविच्छिद्यते च क्षुभ्यते चोत्प्लुत्योत्प्लुत्य गच्छति विमलश्च ताः पाषाणविच्छिन्नविक्षुब्धविमलोदका नद्यः। हिमवत्प्रभवाश्च या गङ्गा
चक्रपाणिः-आधारविशेषे गुणविशेषमाह-- नद्य इत्यादि। पाषाणैविच्छिन्नं विक्षुब्धम् अभिहतञ्चोदकं यासां तास्तथा, एतेन, आधत्यकाप्रभवा एव हिमालये नद्यः पथ्या उक्ता भवन्ति,
For Private and Personal Use Only