SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६४ चरक-संहिता। [ दोघजीवितीयः सामानाधिकरप्यं कुण्डानुयोगिकविभागवन्ति बदराणि सन्तीति। विभागाख्यो गुणोऽत्राभावः। इत्येवमव्यतिरेकप्रतिषेधपक्षेऽभेदसंयागादिसम्बन्धप्रतिषेधस्वभावो भेदविभागादिर्भाव एवेति भावेष्वितरेतराभावसिद्धिरिति स्वपक्षऽन्तर्भावादप्रतिषिध्यानुमत्य स्वभावमात्रसिद्धिर्भावानां प्रतिषिध्यते। न स्वभावसिद्धरापेक्षिकखात् । सर्वमभावो न स्वभावसिद्धभावानामिति स्वभावमात्रसिद्धिर्भावानां नापेक्षिकखात् । भाष्यञ्चास्य । अपेक्षाकृतमापेक्षिकं हवापेक्षाकृतं दीर्घ दीर्घापेक्षाकृतं इस्वं न खे नात्मनावस्थितं किञ्चित् । अपेक्षासामर्थ्यात् । तस्मान्न स्वभावसिद्धिर्भावानामिति। व्याहतवादेतदयुक्तम् । यदि इस्त्रापेक्षाकृतं दीर्घ किमिदानीमपेक्ष्य इस्वमिति गृह्यते । • अथ दीर्घापेक्षाकृतं इख दीर्घमन्यापेक्षिकमेवमितरेतराश्रययोरेकाभावेऽन्यतराभावादुमयाभाव इति अपेक्षाव्यवस्थाऽनुपपन्ना। स्वभाव सिद्धावसत्यां समयोः परिमण्डलयो द्रव्ययोरापेक्षिकदीर्घवहस्वखे क.स्मान्न भवतः। अपेक्षायामनपेक्षायाश्च द्रव्ययोरभेदः। यावती द्रव्ये अपेक्षमाणे तावती द्रव्ये एवानपेक्षमाणे नान्यतरत्र भेदः। आपेक्षिकले तु सति अन्यतरत्र विशेषोपजनः स्यादिति। किमपेक्षासामर्थ्य मिति चेत् । द्वयोहणेऽतिशयग्रहणोपपत्तिः। द्वे द्रव्ये पश्यन्नेकत्र विद्यमानमतिशयं गृह्णाति तदीर्घमिति व्यवस्यति। यच्च हीनं गृह्णाति तद इस्वमिति व्यवस्यतीति। एवञ्चापेक्षासामर्थ्यमिति । भाष्यस्य चास्यानुव्याख्यानम् ।-अपेक्षाकृतमापेक्षिकमिति येन स्वन रूपेण भावो भवति तत्वं रूपं तद्भावोत्पत्तो खल्वव्यापन्नोपादानकारणान्यपेक्षते। यथा भूतोपादानै रारभ्यते काय तदनुगुणमेव स्वरूपमापद्यमानं निष्पद्यते । एकदेशव्यापन्नैरारभ्यमाणमेकदेशवै कृतं कार्य स्यादव्यापन्नैरविकृत स्यात् यथा जात्यन्धकाणबधिरादिः सर्वसम्पूर्णाङ्गश्च दृश्यते। एतदेवापेक्षिकस्वभावं कश्चिदुदाहरति। हस्खापेक्षाकृतमित्यादि। सर्वञ्चैतद्भाप्यं तिस्रषणीये स्वभावकारणवादव्याख्याने व्याख्यास्यते। इति । वैशेषिके कणादेनाप्येवमेवोक्तम् । क्रियागुणव्यपदेशाभावात् पागसत् ।।१।। सदसत् ॥ २ ॥ असतः क्रियागुणव्यपदेशाभावादर्थान्तरम् ॥३॥ सच्चासत् ॥४॥ यच्चान्यदसदतस्तदसत् ॥ ५॥ असदिति भूतप्रत्यक्षाभाचाद्भ तस्मृतेविरोधिप्रत्यक्षवत ॥६॥ तथाऽभावे भावप्रत्यक्ष वाच ॥७॥ एतेनाघटोऽगौरधर्मश्च व्याखबातः॥८॥ कथमन्यश्चास्तम्भश्च ॥९॥ अभूतं नास्तीत्यनर्थान्तरम् ॥१०॥ नास्ति घटो गेह इति सतो घटस्य गेहसंसर्गप्रतिषेधः ।। ११ ॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy